________________
: मुहूर्तचिंतामणिः । [पंचमेऽह्नि रजस्वलाशुद्धिः
पूर्णिमा | पर्वाण्येतानि राजेंद्र रविसंक्रांतिरेव च ॥' इति । रिक्ताः = चतुर्थीनवमीचतुर्दश्यः । संध्यां प्रातःसंध्यां सायंसंध्यां च, भौमं मंगलवारं, अर्कमादित्यबारं, आर्किं शनैश्चरवारं चतस्रः आद्यरात्रीः रजोदर्शन दिनमारभ्य दिनचतुष्टयं त्यजेदित्यर्थः । तदनंतरमपि पुत्रार्थी रजोदर्शनतो विषमदिवसं त्यजेत् । उक्तं चाधानाध्याये वसिष्ठेन निषेधजातम् -' पौष्णद्वये पित्र्यभयाम्यसार्पविष्णुद्वये नैधनजन्मभेषु । उत्पातपापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने ॥ उपप्लवे वैधृतिपातयोश्च विष्ट्यां दिवा पारिघपूर्वभागे । संध्यासु पर्वस्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम् ॥ दिनेषु युग्मेषु च वक्ष्यमाणयोगैः सुतार्थी स्वसतीमुपेयात् । दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा च गंडांस्तिथिलग्नभानाम् ॥' इति । वक्ष्यमाणयोगैः पुंयोगेः स्त्रीयोगैश्च । अत्र ग्रंथकृता श्रवणधनिष्ठयोर्न निषेधः कृतः । बार्हस्पत्यसंहितायां तयोर्विशेषतो विहितत्वात् । तद्वचनमधुनैव वक्ष्यते । ननु षोडशिग्रहणाऽग्रहणवद्विहितप्रतिषिद्धत्वाद्विकल्पः कस्मान्न भवति ? सत्यम् । बहूनामनुरोधो न्याय्य इति विधिरेवोचितः । अत एवोक्तं नारदेन - 'शुचिर्भूत्वा युग्मतिथावनग्नां कामयेत्प्रियाम् । पुत्रार्थी पुरुषस्त्यक्त्वा पौष्णमूलाहिपित्र्यभम् ॥' इति । ' त्यक्त्वा पर्वतिथिं मूलमाश्लेषां पैत्रभं त्विति ॥' इति कश्यपोक्तेश्च । तिथ्यादयः कश्यपेन कालविधाने उक्ताः - ' षष्ठ्यष्टमीं पंचदशीं चतुर्थी चतुर्दशीमप्युभयत्र हित्वा । शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशांकार्यसितेंदुजानाम् ॥' इति । अन्न वाक्ये चंद्रबुधगुरुशुक्रवारा निषेककार्ये शुभा उक्ताः । अर्थादन्ये सूर्य भौमशनिवारा निषिद्धाः । उक्तं च कालनिर्णये - 'रिक्ता पर्वाष्टमी षष्ठी दिवा जन्मत्रयं तथा । पापग्रहाणां वाराश्च त्याज्या याश्चैवानृतौ गतिः ॥' इति । अत एव बृहस्पतिसंहितायाम् - ' शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणि' इत्युक्तम् । 'सोमज्ञगुरुशुक्राणां वारवर्गोदयाः शुभाः । तेषां च दृष्टयश्चैव नेतरेषां कदाचन ॥' इति । अत्र केचिन्निषेके पुंवारा उत्तमाः, स्त्रीवारौ मध्यमौ, नपुंसकवारौ निषिद्धौ । उक्तं च व्यासेन - 'पुरुषग्रहवाराः स्युः शुभाः सीमंतकर्मणि । मध्यौ स्त्रीग्रहवारौ तु वर्जयेत्त नपुंसकौ ॥' इति । अत्र सीमंतग्रहणमुपलक्षणं गर्भाधानस्येत्याहुः । युक्तं चैतत् - 'पुंस्त्रीवारेषु स्त्रीगमने पुरुषाः स्त्रियो वोत्पद्यते' इति तावदिष्टम् । नपुंसकवारगमने तु नपुंसकस्योत्पत्तिः स्यात्, नहि सा कस्यचिदिष्टा भवेदिति नपुंसकबुधवार निषेध एवोचितः, शनिनिषेधस्तूभयवादिसिद्ध एव । दाक्षिणात्यशिष्टसमाचाराच्चातो बुधशन्योरेव निषेधोऽन्येषां ग्रहणमिति प्रतीमः । प्रायास्तु नैतत्सहते, तन्मते तु सूर्य भौमशनीनामेव निषेधः । नारदः - 'रजोदर्शनतोऽस्पृश्या नार्यो दिनचतुष्टयम् । ततः शुद्धाः क्रियास्वताः सर्ववर्णेष्वयं विधिः ॥' अत्रार्थवादमाह भारद्वाजः - ' प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ॥' धर्मशास्त्रेऽपि - ' भर्तुः स्पृश्या चतुess स्नानेन स्त्री रजस्वला । पंचमेऽहनि योग्या स्याद्दैवे पित्र्ये च कर्मणि ॥
1
१६४