________________
गर्भाधाने लग्नबलं] संस्कारप्रकरणम् ५ ।
१६५ तस्मादेतावतो दोषांस्त्यक्त्वा स्त्री गमने हिता ॥' इति । ऋतुकालावधिमाह याज्ञवल्क्यः-'षोडशर्तुर्निशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । युग्मासु पुत्रा जायते स्त्रियोऽयुग्मासु रात्रिषु ॥' अतः षोडश दिनमध्ये गर्भाधानं विधेयं, तत्रैव गर्भसंभवात् । तत्र वाराः समीचीनाः प्रागुक्ता एव । अधुना नक्षत्राण्याह-गर्भाधानमिति । उत्तरात्रयमृगहस्तानुराधारोहिणीस्वातीश्रवणधनिष्ठाशततारकासु गर्भाधानं सत् शुभदम् । उक्तं च बार्हस्पत्यसंहितायाम्-'हरिहस्तानुराधाश्च स्वातीवारुणवासवम् । उत्तरात्रितयं सौम्यं रोहिणी च शुभाः स्मृताः ॥ आधाने मूलसापांत्यमशुभं सममन्यभम् ॥' इति । एवं विहितनक्षत्रे सति चंद्रबले गर्भाधानार्थं सकृदेव पत्नीगमनं कार्यमित्याह याज्ञवल्क्यः -एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थिरेंदौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥' चकाराद्रेवतीम् । भीमपराक्रमोऽपि-'पित्र्यं पौष्णं नैर्ऋतं चापि धिष्ण्यं त्यक्त्वा नारी सुप्रसन्नः प्रसन्नाम् । पुष्टः क्षामां पुत्रकामोऽभिगच्छन् सल्लक्षण्यं पुत्रमामोति पुण्यम् ॥' इति । तच्च गमनं मंत्रपूर्वकम् । तदुक्तं विष्णुपुराणे-'ऋतावुपगमः शस्तः स्वपत्यां मंत्रतो द्विज' इत्युक्तेरिदं त्रैवर्णिकविषयं प्रतीयते । मंत्रास्तु-'विष्णुर्योनि कल्पयतु' इत्येवमादयः। एतैमन्त्रैर्दक्षिणेन पाणिनोपस्थमभिमृशेदिति गोभिलोक्तिः ॥ ५॥ ६ ॥ ___ अथ गर्भाधाने लग्नबलमिंद्रवज्रयाहकेंद्रत्रिकोणेषु शुभैश्च पापैख्यायारिगैः पुंग्रहदृष्टलग्ने ।
ओजांशगेंदावपि युग्मरात्रौ चित्रादितीज्याश्विषु मध्यमं तत् ॥७॥ - केंद्रेति ॥ अथ सामान्यतः शुभलग्नानि वसिष्ठोक्तानि–'वृषभमिथुनकर्कसिंहकन्यातुलधरचापझषाः शुभा भवंति । यदि शुभफलशालिनोऽनुकूला निधनविशुद्धियुता निषेककाले ॥' इति । तत्र केंद्रत्रिकोणेषु लग्नचतुर्थसप्तमदशमपंचमनवमस्थानेषु स्थितैः शुभग्रहैस्तथा व्यायारिगैस्तृतीयैकादशषष्ठस्थानस्थितैः पापग्रहैरुपलक्षिते पुंग्रहः सूर्यभौमगुरुभिदृष्टे लग्ने तथा ओजांशगेंदौ ओजो विषमराशिमषमिथुनादिः । अंशोऽप्योज एव, तत्र स्थिते चंद्रे सति युग्मरात्रौ समरात्रौ गर्भाधानं कार्यम् । यदाह जगन्मोहने वसिष्ठः'केंद्रत्रिकोणेषु शुभस्थितेषु लग्ने शशांके च शुभैः समेते । पापैस्त्रिलाभारिगतैश्च यायात्पुंजन्मयोगेषु च संप्रयोगम् ॥' इति । नारदः-ओजराश्यंशगे चंद्रे लग्ने पुंग्रहवीक्षिते । शुचिर्भूत्वा युग्मतिथौ ह्यनग्नां कामयेत्रियम् ॥' इति । युंग्रहानाह नारदः–'पुंग्रहाः सूर्यजीवाराः स्त्रीग्रही शशिभार्गवौ । नपुंसको सौम्यसौरी शिरोमानं विधुतुदः ॥' इति । अत्र पुंस्त्रीनपुंसकयोगा वसिष्टेनोक्ताः-'आधानलग्ने विषमांशराशौ जीवेंदुजाभ्यां युतवीक्षिते वा । नान्यैः सुपुत्रस्त्वथ पापखेटैः पापी च मित्रैर्बलिभिश्च मिश्रः ॥ ओजाशे लग्नगे वीर्ययुक्ते जीवेंद्वकैंरोजराश्यंशसंस्थैः । पुंजन्म स्याद्व्यत्यये कन्यका - १ अत्र 'आधाने मूलपित्र्यांतम्' इति पाठश्चेत्साधीयान् । मूलानुगुणो ग्रंथांतरसंवादी च भवेत् ।