________________
. मुहूर्तचिंतामणिः। [ऋतावगमने प्रत्यवायः स्यान्मित्रैः षंढो ब्यंगगैर्द्वित्रिजन्म ॥' षंढः नपुंसकः । 'ओजांशकाद्विषमासंस्थः पुंजन्मकारी रविसूनुरेव । विचार्य वीर्य पुरुषग्रहाणां वाच्योऽथ पुत्रस्त्वथ पुत्रिका वा ॥ युग्मांशलग्ने बलयुक्तशुक्रनिशाकराभ्यां युतवीक्षिते वा ॥ नान्यैः सुकन्या त्वथ पापरूपा पापैश्च शेष सुविचिंत्य वाच्यम् ॥' इति । एवमन्येऽपि पुंजन्मादियोगा जातके द्रष्टव्याः । एषु यस्मिन्कस्मिन्पुंजन्मयोगे पुत्रार्थी युग्मरात्री पत्नी गच्छेत् । कन्याजन्मयोगे तु कन्यार्थी विषमरात्रौ पत्नीं गच्छेत् इति फलितोऽर्थः । अथ गर्भाधाने विहितनक्षत्राप्राप्तौ मध्यमनक्षत्राण्याहचित्रेति । चित्रापुनर्वसुपुष्याश्विनीषु तद्गर्भाधानं मध्यमं मध्यमफलदमित्यर्थः । यदाह बृहस्पतिः-'चित्रादित्ये तथा तिष्यतुरगौ चेति मध्यमाः। शेषाण्यक्षाणि दुष्टानि स्युनिषेकाख्यकर्मणि ॥' इति । अत्र केचिदैवान्मानुषाद्वा प्रतिबंधाद्भर्तुरसन्निधानेऽनेकेषु ऋतुषु व्यतीतेषु गर्भाधानाख्यः संस्कारो नाभूत्तदानीं दैवान्मध्ये भर्ता समागतश्चेत्तदा दक्षिणायनशुक्रगुर्वस्तन्यूनाधिमासादिमहादोषसद्भावस्तदा गर्भाधानं नैव भवतीत्याहुः-अतीतकालत्वाद्यथा कालातीतेषु जातकर्मनामकर्मान्नप्राशनचौलादिसंस्काराः पूर्वोक्तदोषसद्भावे नैव भवंति । उक्तं च वसिष्ठेन-'अतीतकालान्यखिलानि यानि कार्याणि सौम्यायनगे दिनेशे । गुरौ भृगौ वाप्यथ दृश्यमाने तदुक्तपंचांगदिनेऽप्यखंडे ॥' इति । सत्यम् । सत्यपि ऋतूनामतिक्रमे 'निमित्तानंतरमेव नैमित्तिकम्' इति न्यायेन 'षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत्' इति याज्ञवल्क्यवचसा षोडशदिनमध्ये एव चेत् भर्तुः सान्निध्यमभूत्तदा तत्रैव यथाकथंचित्कालशुद्धिं विचार्य गर्भाधानं कर्तव्यं । षोडशदिनातिक्रमे तु ऋत्वंतरमपेक्ष्य प्रागुक्तदिशा कालशुद्धिं विचार्य कार्यमेव, तदा बहुकालव्यापिनी कालशुद्धिरुपेक्ष्यैव । यतो विज्ञानेश्वरेण-तस्मिन्युग्मासु संविशेत्' इत्यस्य व्याख्यानावसरे किमयं विधिनियमः परिसंख्या वेति त्रयः पक्षा उपन्यस्तास्तत्र स्त्रीगमने रागत एव प्रवृत्तेनियम एवायमिति सिद्धांतितम् । 'ऋतौ गच्छेदेव' इति यममरणात् 'ऋतावुपेयात्सर्वत्र वा प्रतिषेधवय॑म्' इति गौतमस्मरणाच्च । ऋत्वगमने प्रत्यवायोऽपि स्मयते । 'ऋतुस्नातां तु यो भायाँ सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥' इति शातातपोक्तेः। अत एवैतषणभयादेवाधिकारिणा पित्रादिना कन्या गुणवते वरायावश्यं देयेत्याह याज्ञवल्क्यः -पिता पितामहो भ्राताकुल्यो वा जननी तथा। कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥अप्रयच्छन्नवामोति भ्रूणहत्यामृतावृतौ ॥' इति वीप्सोक्तिः कैमुतिकन्यायसूचनार्थम् । यत्र पित्रादेरदातुचेदयंदोषस्तदा भर्तुरयं दोषो भवत्येवेति किं वाच्यमित्यर्थः। भ्रणः गर्भः। अथ गर्भाधानं विधाय पुंसा निद्रासमये किं कार्यमित्याह विष्णुः-निद्रासमयमासाद्य तांबूलं वदनात्त्यजेत् । पर्यकात्प्रमदां भालात् पुंडूं पुष्पाणि मस्तकातू ॥' इति । अथानया गर्भो तो न वेति प्रश्ने गर्भधारणयोगा जातके द्रष्टव्याः । प्रस्तुतेऽप्रसंगान लिख्यतेऽस्माभिः ॥ इति गर्भाधानं समाप्तम् ॥ ७ ॥