________________
सीमंते कालनिर्णयः] संस्कारप्रकरणम् ५। अथ प्रसिद्ध गर्भे सीमंतोन्नयनाख्यसंस्कारमुहूर्त शार्दूलविक्रीडितेनाहजीवारिदिने मृगेज्यनिक्रतिश्रोत्रादितिबनभै
रिक्तामार्करसाष्टवर्ण्यतिथिभिर्मासाधिपे पीवरे । सीमंतोऽष्टमषष्ठमासि शुभदैः केंद्रत्रिकोणे खलै
लाभारित्रिषु वा ध्रुवांत्यसदहे लग्ने च पुंभांशके ॥८॥ जीवार्केति ॥ जीवः बृहस्पतिः, अर्कः सूर्यः, आरः मंगलः, एषां वारे; तथा बध्नः सूर्यः, 'भास्कराहस्करबध्न' इत्यभिधानात् । तस्य भं हस्तः, अन्यरस्पष्टं नामत एव । एवं मृगपुष्यमूलश्रवणपुनर्वसुहस्तनक्षत्रैः सीमंतो लक्षणया सीमंतोन्नयनाख्यः संस्कारः कार्यः । सीमंत उन्नीयते यस्मिन्कर्मणि तत्सीमंतोन्नयनमिति शब्दव्युत्पत्तिः, सीमंत: केशमध्यभागः। उक्तं च सीमबाध्याये कश्यपेन- शुक्लपक्षादिदिवसं रिक्त पर्वस्य मध्यमाम्। तिथिं त्यक्त्वाकभूसूनुसुरेज्यानां च वासरे ॥' इति ॥ रत्नमालायाम्-'श्रवणः सकरः पुनर्वसुर्निर्ऋतेभं च सपुष्यको मृगः । रविभूसुतजीववासराः कथिताः पुंसवनादिकर्मसु ॥' आदिशब्देन सीमंतोन्नयनादि । व्यासः-'पुरुषग्रहवाराः स्युः शुभाः सीमंतकर्मणि । मध्यौ स्त्रीग्रहवारौ तु वर्जयेत्तु नपुंसकौ ॥' इति । तत्र तिथयो निषिद्धा उच्यते-रिक्तेति। रिक्ताः प्रसिद्धाः,अमा अमावास्या,अर्का:= द्वादशी, रसाः षष्ठी, अष्ट=अष्टमी; एताभिस्तिथिभिर्वा न्यूना अवशिष्टा यास्तिथयस्ताभिरुपलक्षिते दिने । यदाह गुरुः–'पक्षच्छिद्रां च रिक्तां च विना पंचदशी शुभाः । चतुर्दशी चतुर्थी च कदाचित्तु शुभप्रदे॥ शुभसंस्थे निशा. नाथे चतुर्थी च चतुर्दशी । पौर्णमासी प्रशंसंति केचित्सीमंतकर्मणि ॥' इति । किंच मासाधिपे 'मासेश्वरा' इत्यग्रिमश्लोकेन ज्ञाते गर्भमासस्वामिनि पीवरे पुष्टे उदिते सतीत्यर्थः । यदाह नारदः-'चतुर्थे मासि षष्ठे वाप्यष्टमे वा तदीश्वरे । बलोपपन्ने दंपत्योश्चंद्रताराबलान्विते ॥' कश्यपोऽपि-'मासेश्वरे बलोपेते नास्तगे न पराजिते' इति । यदि मासाधिपो निर्बलस्तदा दोष इत्याह गर्गः-'यस्य मासाधिपो रिक्तो नीचो वास्तंगतोऽपि वा । तस्मिन्मासे क्षयं याति प्रसवो वा भविष्यति ॥' स च सीमंतो गर्भधारणसमयादष्टमषष्ठमासि अष्टममासि षष्ठमासि वा कार्यः । अयं चेच्छया विकल्पः । 'षष्ठेऽष्टमे वा सीमंतो मासि' इति याज्ञवल्क्योक्तेः। नारदेन चतुर्थोऽपि मासोऽभ्यधायि, तद्वाक्यं प्रदर्शितं । शौनकेनापि-'चतुर्थे गर्भमासे स्यात्सीमंतोन्नयनक्रिया । षष्ठेऽष्टमे वा कुर्वीत सूत्रांतरविधानतः ॥' सूत्रांतरं स्वस्वगृह्यसूत्रम् । एवं स्वेच्छयोक्तमासे एव विधेयम् । तञ्च शुद्धपक्षे पूर्वाह्न एव नापराह्ने । यदाह नारदः-'शुक्ल पक्षे च पूर्वाह्ने सीमंताख्यो विधिः स्मृतः' इति । बृहस्पतिरपि–'पूर्वपक्षः शुभः प्रोक्तः कृष्णश्चांत्यत्रिकं विना। पूर्वाह्न एव तत्रापि नापराह्ने कथंचन ॥' इति । अथ लग्नमुच्यते-केंद्रेति । केंद्र १४७११० त्रिकोण ९।५ स्थानेषु शुभदैः सौम्यग्रहैस्तथा लाभारित्रिषु ११।६।३ खलैः पापग्रहैरुपलक्षिते लग्ने तत्रापि च पुनः पुंभांशके पुरुषराशि