________________
१६८
मुहूर्तचिंतामणिः । [सीमंते शुक्रास्तदोषविचारः लग्ने पुरुषनवांशके च कार्यः । यदाह वसिष्ठः-'केंद्रत्रिकोणोपगतैश्च सौम्यैदुश्चिक्यलाभारिगतैश्च पापैः । षडष्टलग्नांत्यविवर्जितेंदौ सीमंतकार्य शुभदं तथैव ॥' इति ॥ रत्नमालायाम्-'षष्ठे मास्यथवाष्टमे तदधिपे वीर्योपपन्ने विधौ चेष्टैईष्टतनौ नृनामभवने पुंलग्नभागेषु च । धीधर्माख्यचतुष्टयेऽपि च-गुरौ पापैश्च तद्बाह्यगैर्मृत्युद्वादशवर्जितैश्च मुनिभिः सीमंतकर्म स्मृतम् ॥' अन विशेषमाह कश्यपः-'चंद्रोऽपि शुभदो ज्ञेयस्त्यक्त्वा षष्ठाष्टमव्ययान् । सीमंतलग्नादेकोऽपि करः पंचाष्टरिःफगः । हंति सीमंतिनी सोऽपि तद्गर्भ वा न संशयः ॥' अत्रापि जन्मराशिजन्मलग्नाभ्यामष्टमभवनमिष्टलग्नादष्टमलग्नं च शुद्धं ग्राह्यम् । यदाह सीमंताध्याये कश्यपः-'न नैधने तयोर्लग्ने नैधने शुद्धिसंयुते । पंचभिश्च चतुर्भिर्वा सूर्येदुगुरुपूर्वकैः । ग्रहैरिष्टैः शुभे लग्ने राशावपि न नैधने ॥' इति । सीमंतोन्नयनमित्यनुषंगः। तयोः स्त्रीपुंसयोः । अस्यापवादः प्रयोगपारिजाते नृसिंहोक्तः- लग्नादष्टमराशीशः केंद्रगः शुभवीक्षितः । यद्यप्यष्टमभस्योक्तं दोषमाशु व्यपोहति ॥' अपिशब्दो भिन्नक्रमोऽष्टमभस्येत्यस्यानंतरं द्रष्टव्यः । स च कैमुतिकन्यायेनान्यदोषनिवारणार्थोऽपि संपन्नः । क्वचित्सत्यपि ग्रहबले सिंहवृश्चिकलग्ने निंदिते अभिहिते इत्ययमप्यत्र विशेषो ध्येयः । यदाह गुरुः-'मूलः केचिदि. च्छंति सीमंतं शुभदं बुधाः। सिंहालि वर्जयेल्लग्नं ग्रहैरष्टमवर्जितम् ॥' ग्रहैः= क्रूरग्रहैः । क्वचिद्राशिवयं निषिद्धम् । यदाह गर्गः-'सीमंतोन्नयनं कार्य शुभांशे शुभलग्नगे । कुलीरमृगकन्याश्च वाः शेषाश्च शोभनाः ॥' इति । अथ मतांतरेण नक्षत्राणि वारांश्चाह-ध्रुवेति । ध्रुवाणि रोहिण्युत्तरात्रयं, अंत्यं रेवती, तथा सदहे सतां शुभग्रहाणां चंद्रबुधगुरुशुक्राणामह्नि वासरे, ध्रुवांस्यनक्षत्रेषु प्रागुक्तनक्षत्रेषु वा कार्यम् । एवं शुभग्रहवारे वा कार्यमित्यर्थः । यदाह गुरुः-'रोहिण्यैदवमादित्यं पुष्यहस्तोत्तरात्रयम् । पौष्णं वैष्णवभं चैव सीमंतादिषु संमतम् ॥' इति । श्रीधरः-'सौम्यानां वारवर्गाः स्युः सीमंतादिषु शोभनाः ॥' इति । अत्र जन्मनक्षत्रं यदि विहितमपि संभवेत्तदा तदपि वयमित्याह वसिष्ठः-'बालानभुक्तो व्रतबंधने च राजाभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहसीमंतयात्रादिषु मंगलेषु ॥' एवं निर्णीते सीमंतोन्नयनमुहूर्ते शुक्रास्तादिदोषविचारो नास्ति, नियतमासविहितत्वात् । तदाह गुरु:-'मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः । न दोषकृन्मलो मासो गुर्वादित्यादिकं तथा ॥' इति । अयमत्र तात्पर्यार्थःयत्र नियतकाल एव कालो विहितः । यथा-तृतीये मासि पुंसवनं तत्र शुक्रास्तादिदोषाभाव एव । यत्र तु सीमंतादौ चतुर्थषष्टाष्टममासरूपं कालत्रयविधानं तत्र शुक्रास्तादिदोषरहितेतरकालो ग्राह्यः संभवात् । क्वचित्कुलाचारवशात्सीमंतादौ नियत एव कालो विवक्षितो भवेत्तदा न दोषः, कुलाचारवशादेव तदतिरिक्तो नियत एव कालः स्यात्तदापि न दोषः । यत्र बहुकालविधानेऽपि बहुदिनन्यापकसिंहस्थगुर्वादिदोषसगावे सत्यनन्यगतिकत्वान्नैव