________________
स्त्रीणां चन्द्रबलं मासेशाच] संस्कारप्रकरणम् ५।
१६९ दोषः । एवं नामकर्मानप्राशनादिष्वपि द्रष्टव्यम् । उक्तं च-'सीमंतजातकादीनि प्राशनांतानि यानि वै । न दोषो मलमासस्य मौढ्यस्य गुरुशुक्रयोः॥' इति । मौल्यस्येत्यादि दोषोपलक्षणम् । एवं च कालप्रतीक्षायोग्येषु चूडाकरणादिषु मलमासादिदोषो विचारणीय एवेति । अथैते गर्भाधानादयः संस्काराः किं गर्भसंस्कारकत्वात्प्रतिगर्भमावर्तते उत सकृदेव कार्या इति । तत्रेदृशं भृगुवाक्यम्-'प्राप्ते तृतीयमासे स्फुरदिंदुकलापपक्षे च । पुंसवनं पुत्रेप्सुर्गर्भ गर्ने प्रकुर्वीत' इति । पुंसवनमुपलक्षणं सर्वगर्भसंस्काराणाम् । गर्भे गर्भे इति वीप्साग्रहणात्प्रतिगर्भमावृत्तिरिति केचिदाहुः । अपरे च सकृदेव कार्या इत्याहुः । यदाह हारीत:-'सकृच्च कृतसंस्काराः सीमंतेन द्विजस्त्रियः। यं यं गर्भ प्रसूर्यते स सर्वः संस्कृतो भवेत् ॥' इति । एतेन क्षेत्रसंस्कारकत्वमुक्तं भवति । यथा भूरेकवारं दाहायनेकसंस्कारवती सर्वकाले कर्षणयोग्या भवति तद्वदनापीत्यर्थः । क्वचित्तु कोंकणदेशादौ प्रतिवर्ष दाहादिसंस्कारं विधाय कर्षणं क्रियते। इत्येवं पक्षद्वयसंभवे देशाचारतो व्यवस्था ध्येया। ननु तृतीयमासविहितत्वादादौ पुंसवनमुहूर्तो विचारणीयस्ततश्चतुर्थषष्ठाष्टममासविहितः सीमंतमुहूर्तो विचार्यः, वैपरीत्योक्तौ किं बीजमिति चेत् । उच्यते,-सीमंते विहितस्य तिथिनक्षत्रवारलग्नादिसमुदायस्य पुंसवनेऽप्युपयोगात्सर्वदेशप्रसिद्धसीमंतानुष्ठानाचारदर्शनाच्चादौ सीमंतस्योक्तिः । पुंसवनं स्वतंत्रकर्तव्यत्वेनोक्तमपि शिष्टाः सीमंतेन सहैव कुर्वति । यदाह जातूकर्ण्यः-'सीमन्तेन सहाथवा' इति । नृसिंहोऽपि-सीमंतोन्नयनस्योक्ततिथिवासरराशिषु । पुंसवं कारयेद्विद्वान्सहैवैकदिनेऽथवा ॥' इति । अत एवानवलोभनाख्यं कर्मास्मिन्नेव दिने क्रियत इति शिष्टाचारोऽप्यत्रार्थे प्रमाणम् ॥ इति सीमंतविचारः ॥ ८॥ अथ प्रसंगेन मासेश्वरान् स्त्रीणां चंद्रबलं च वसंततिलकयाहमासेश्वराः सितकुजेज्यरवींदुसौर
चंद्रात्मजास्तनुपचंद्रदिवाकराः स्युः । स्त्रीणां विधोर्बलमुशंति विवाहगर्भ
___ संस्कारयोरितरकर्मसु भर्तुरेव ॥९॥ मासेश्वरा इति ॥ गर्भप्रथममासादारभ्य दशमप्रसूतिमासपर्यंतं सितादयो मासेश्वरा ज्ञेयाः । यथा-प्रथममासेश्वरः शुक्रः, द्वितीये मंगलः, तृतीये गुरुः, चतुर्थे रविः, पंचमे चंद्रः, षष्ठे शनिः, सप्तमे बुधः, अष्टमे आधानलग्नाधिपतिः, नवमे चंद्रः, दशमे सूर्यः। अत्र प्रथममासमारभ्य दशममासं यावद्गभस्य कललादिरूपावस्था भवतीत्यपि विशेषो ध्येयः । यदाह वराहः'कललघनांकुरास्थिचांगजचेतनताः सितकुजबीजसूर्यचंद्रार्किबुधाः परतः । उदयपतिचंद्रसूर्यनाथाः क्रमशो गदिता भवंति शुभाशुभं च मासाधिपतेः सदृशम् ॥' इति । शुक्रशोणितसन्निपातः कललम् । अंगजानि-लोमानि ।
१५ मु० चि.