________________
मुहूर्तचिंतामणिः। [पुंसवनमुहूर्तः वसिष्ठोऽपि-सितावनेयामरपूज्यसूर्यचंद्रार्किसौम्योदय–दुसूर्याः । मासाधिपाः स्युः क्रमशो दशैते निपीडितो नाशयति स्वमासि' ॥ स्त्रीणामिति ॥ गोचरप्रकरणे यद्यप्युभयोः स्त्रीपुंसयोः सामान्यतो ग्रहबलमुक्तं तथाप्यत्र स्त्रीणां चंद्रबले विशेषोऽभिधीयते। विवाहे गर्भसंस्कारे गर्भाधानपुंसवनसीमतादिरूपे स्त्रीणामपि बलं ग्राह्यम् , इतरकर्मसु वस्त्रपरिधानालंकारधारणादिषु कृत्येषु भर्तुर्धवस्यैव चंद्रबलं ग्राह्यं नतु स्त्रीणाम् । यदा तु भर्ता मृतस्तदा स्त्रीणामेव चंद्रबलं ग्राह्यमित्यर्थसिद्धम् । उक्तं च-'पाणिपीडनविधेरनंतरं भर्तुरेव बलमैंदवादिकम् । चिंतनीयमिह योषितां क्वचिन्नाष्टमंगलमृते मनीषिभिः ॥' इति । राजमार्तड:-'विवाहकार्य कुसुमप्रतिष्ठा गर्भप्रतिष्ठा वनिताविशुद्धौ। भन्यानि कार्याणि धवस्य शुद्धौ पत्यौ विहीने प्रमदात्मशुद्ध्या ॥' कुसुमप्रतिष्ठा= गर्भाधानम् । गर्भप्रतिष्ठा-सीमंतादिः ॥९॥ ___ अथ येषामाचारः पृथगेव पुंसवनं विधेयमिति तदर्थ पुंसवनमुहूर्त विष्णुपूजामुहूर्त चंद्रवज्रयाहपूर्वोदितैः पुंसवनं विधेयं मासे तृतीये त्वथ विष्णुपूजा। मासेऽष्टमे विष्णुविधातृजीवलग्ने शुभे मृत्युगृहे च शुद्धे ॥१०॥
पूर्वोदितैरिति ॥ पूर्व सीमंतोन्नयने उदितैः प्रोक्तैस्तिथिवारनक्षत्रलग्नैरुपलक्षिते तृतीये मासि पुंसवनं विधेयमिति तदर्थ पुंसवनाख्यं कर्म विधेयम् । पुमान् सूयतेऽनेन कर्मणेति न्युत्पत्त्या पुंसवनकर्मणः पुंस्त्वहेतुता । यदाह शौनकः-'व्यक्ते गर्भ तृतीये तु मासे पुंसवनं भवेत् । गर्भोऽव्यक्तस्तृतीये चेञ्चतुर्थे मासि वा भवेत् ॥' नृसिंहः-'सीमंतोन्नयनस्योक्ततिथिवासरराशिषु । पुंसवं कारयेद्विद्वान्सहेवैकदिनेऽथवा॥' इति। विशेषमाह वसिष्ठः'कुर्यात्पुंसवनं प्रसिद्धविषये गर्भे तृतीयेऽथवा मासि स्फीततनौ तुषारकिरणे पुष्येऽथवा वैष्णवे । हित्वा कर्कटकं नृयुग्ममबलामन्येष्वरिक्ते तिथौ शुद्ध नैधनधाम्नि शुक्रशशभृद्विन्मत्रिणां वासरे ॥' इति । नैधनधानि-अष्टमस्थाने सर्वग्रहरहिते । यदाह वसिष्ठः-'अष्टमस्था ग्रहाः सर्वे नेष्टाः स्युस्तेऽशुभा. वहाः । एवं सम्यक्परीक्ष्यैव कुर्यात्पुंसवनक्रियाम् ॥' इति । वारास्त्वत्र सौम्यग्रहाणामुक्ताः । बृहस्पतिरप्यत्र विशेषमाह-'गुरुशुक्रबुधेदूनां द्रेष्काणदिवसांशकाः । तेषामुदयहोराश्च पुंसवेऽतिशुभावहाः ॥' इति । अन्यैस्तु श्रीपत्यादिभिः पुंवारा एव प्रशस्ता अभिहिताः। तत्फलान्याह गर्गः-'सौम्ये मृतप्रजा मंदे मृत्युर्वध्या च भार्गवे । सोमे दुग्धविहीना स्याच्छेषाः सर्वार्थसिद्धिदाः ॥' इति । अत्र वचनद्वयप्रामाण्याद्विकल्पः । केचित्तु यदा तृतीये मासि पुंसवनं चिकीर्षितं तदा सौम्यवारा एव ग्राह्याः । यदा तु चतुर्थे मासि गर्भस्य व्यक्तत्वात्पुंसवनं चिकीर्षितं तदा पुंवारा एव ग्राह्या इत्याहुः । नक्षत्राणि ह्यत्र पुंनामानि ग्राह्याणि, तानि 'श्रवणः सकर' इति श्रीपतिनोक्तानि । वसिष्ठेन तु पुनामान्यभिहितानि । यथा-'पुंनाम श्रवणं तिष्यः स्वाती हस्तः