________________
जातकर्ममुहूर्तः] संस्कारप्रकरणम् ५। पुनर्वसुः । मूलं प्रोष्ठपदं चानुराधा मृगशिरोऽश्विनी ॥' विशेषमाह ऋक्षो. ञ्चयः-'हस्तातिष्यमूलानि सौम्यं विष्णुः पुनर्वसुः। प्रोष्ठपदाद्वयं प्रोक्तमाषाढद्वयमेव च ॥ श्रेष्ठानि कथितान्येव धिष्ण्यान्येकादशैव तु । स्वाती तथा मघायां च रेवत्यां फल्गुनीद्वये ॥ अश्विन्यां चैव नक्षत्रे यदा पुंसवनं भवेत् । नरः संपद्यते दैवाद्यदा स्याद्गुरुतल्पगः । लुब्धो हृस्वतनुः क्रूरो नारी चेत्कुलटा भवेत् ॥ शेषाणि दश धिष्ण्यानि निंदितानि विशेषतः ॥' तदेतयोर्द्विरुक्तार्थयोर्वाक्ययोर्देशाचारतो व्यवस्था । तत्र वसिष्ठवाक्येन दाक्षिणात्या व्यवहरंति । प्राच्यास्तु ऋक्षोच्चयवाक्येन ॥ अथ लग्नशुद्धिमाह ऋक्षोच्चयः-'मीनवृश्चिककुंभेषु चापगोसिंहकन्यकाः। उक्ताः पुंसवनायेषु सुखपुत्रादिवांछया ॥ केंद्रत्रिकोणभवनेषु शुभस्थितेषु पापेषु षदत्रिदशलाभगृहस्थितेषु ॥ जीवेंदुभानुभृगुभूमिजमंदिरेषु लग्नेषु लग्नपरिशुद्धशुभांशकेषु ॥' अत्रापि स्त्रीपुंसयोश्चंद्रबलमावश्यकमित्याह नृसिंहः–'अपि पुंसवनं कार्य दंपत्योरनुकूलभे। जन्मादिं वर्जयेद्राशिं चांशकं विपदादिषु ॥' इति । अथ गर्भरक्षार्थ विष्णुपूजामुहूर्त उच्यते-अथेति । सीमंतानंतरमष्टमे मासि विष्णुविधातृजीवैः श्रवणरोहिणीपुष्यैरुपलक्षिते दिवसे तथा लग्ने शुभे शुभस्वामिके शुभयुक्ते वा सति तथा मृत्युगृहेऽष्टमस्थाने शुद्ध सर्वग्रहरहिते च सति विष्णुपूजा कार्या । यदाह प्रयोगपारिजाते वसिष्ठः-'मास्यष्टमे च गर्भस्य कुर्याद्विष्णुबलि क्रियाम् । श्रवणे चैव रोहिण्यां पुष्ये चैव प्रशस्यते ॥ द्वितीया सप्तमी चैव द्वादशी च शुभा तिथिः। शुभग्रहोदयाः शस्तास्तेषां च दिवसा अपि ॥ पापाख्यायारिगाः श्रेष्ठा नेष्टाः सर्वेऽष्टमे स्थिताः ॥' इति । अष्टमग्रहदोषापवादमाह गुरुः-'रंध्रेशः स्वांशगः स्वोच्चस्वक्षेत्रोपचयसंगः । अष्टमस्थस्य दोषोऽयं विनश्यति न संशयः ॥' इति । नारदोऽपि-'लग्नाष्टमेशयोमैत्रे लग्नेशे बलसंयुते । अस्तगे निधनेशे च निधनेऽपि शुभग्रहे ॥' इति । वसिष्ठसंहितायां तु संक्षिप्योक्तम्-'रोहिण्यां वा वैष्णवे पूर्वपक्षे द्वादश्यां वा सप्तमे वा तिथौ वा । मध्ये चाह्नः पूर्वभागेऽनुकूले विष्णोः पूजां कारयेद्गर्भपुष्ट्यै ॥' तत्र पूजाप्रकारस्तेनैवोक्तः-'पीतांबरं कृष्णवर्ण शंखचक्रगदांबुजम् । वैकुंठवासिनं विष्णुं मृत्कुंभे स्थापयेत्ततः ॥ विष्णोः स्वरूपं कनकेन कृत्वा तलिंगमंत्रैरथ गंधपुष्पैः । वस्त्राक्षतैर्गुग्गुलुधूपदीपैनैवेद्यतांबूलफलैश्च सम्यक् ॥ विष्णुं च देवतापूजां गर्भाणां रक्षणाय च । ब्राह्मणाय प्रदातव्या प्रतिमा वस्त्रसंयुता ॥' इति गर्भरक्षार्थ विष्णुपूजा ॥१०॥
अथ जातकर्म-नामकरणयोर्मुहूर्तमुपजात्याहतजातकर्मादि शिशोविधेयं पर्वाख्यरिक्तोनतिथौ शुभेऽह्नि । एकादशे द्वादशकेऽपि घस्रे मृदुध्रुवक्षिप्रचरोडुषु स्यात् ॥११॥
तजातकर्मेति ॥ नन्विदमयुक्तं यजातकर्म शुभदिने कार्यमिति । कुतः ? जातस्योत्पन्नस्य कर्म वैदिकः संस्कारविशेषः स जातकर्मशब्देनोच्यते । तच्च