________________
१७२ ' मुहूर्तचिंतामणिः। [नामकर्ममुहूर्तः शब्दप्रवृत्त्योत्पन्नक्षण एव विधेयम् । यदाह वसिष्ठः-'यस्मिन्मुहूर्ते जनितः कुमारस्तस्मिन्विधेयं खलु जातकर्म । संतर्य देवान्सपिवृन्द्विजांश्रा सुवर्णगोभूतिलकांस्यवस्त्रैः ॥' इति । विष्णुरपि-'जातकर्म ततः कुर्यात्पुत्रे जाते यथोदितम्' इति । यथोदितं स्वस्वगृह्यानुसारेणेत्यर्थः । तच्च श्रवणानंतर सचैलं स्नानं विधाय कार्यम् । उक्तं च ज्योतिःसागरे वसिष्ठेन-'श्रुत्वा जातं पिता पुत्रं सचैलं स्नानमाचरेत् । उत्तराभिमुखो भूत्वा नद्यां वा देवखातके ॥' इति, तदपि नालच्छेदनात्प्रागेव कार्यम् । उक्तं च मनुनाप्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते' इति । वर्धनं छेदनम् । 'वृधु छेदने' इति धात्वर्थानुसारात् । अत्र हेतुमाह जैमिनि:-'यावन्न छिद्यते नालं तावन्नामोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ॥' इति । तस्माजातकर्ममुहूर्तोऽनुपपन्नः । उच्यते,-संक्रांत्यादिदुष्टकालेषु शुभकर्माचरणं नास्ति । यदाह गर्ग:-'व्यतीपाते च संक्रान्तौ ग्रहणे वैधतावपि । श्राद्धं विना शुभं कर्म प्राप्ते कालेऽपि नाचरेत् ॥ अन्यच्च-'अमासंक्रांतिविष्ट्यादौ प्राप्ते कालेऽपि नाचरेत् । किंच मूलज्येष्ठागंडांतादिषु जन्मसंभवे शांतिविधानात् । अथवा पिता देशांतरगतो राजगृहादौ निरुद्धो वा जातकर्मादि कर्तुमशक्नु वन्पश्चात्प्रतिबंधापवाहनेन गृहमागतोऽपि तत्रैव करोति; तदैव जन्माभावासूतकप्रवृत्तेश्च । तदाह बैजवाप:-'जन्मतोऽनंतरं कार्य जातकर्म यथाविधि । दैवादतीतः कालश्वेदतीते सूतके भवेत् ॥' इति । अत एव कालविकल्पोऽभिहितो नारदसंहितायाम्-'तस्मिञ्जन्ममुहूर्ते तु सूतकांते तथा शिशोः । जातकर्म च कर्तव्यं पितृपूजनपूर्वकम् ॥' इति । इदं च तुल्यन्यायत्वानामकर्मण्यपि ध्येयम् । तस्मादतिक्रांतकाले अवश्यं जातकर्मादिमुहूर्तो विचार्य इत्यलमतिप्रसंगेन । तज्जातकर्मादीति । पर्वाण्युक्तानि मया। रिकाः चतुर्थीनवमीचतुर्दश्यः, ताभिरूने वर्जिते तिथौ । जात्यभिप्रायेणैकवचनम् । शुभेऽह्नि व्यतीपातादिदोषरहिते दिवसे शुभग्रहवासरे च तथैकादशे द्वादशे वा घस्ने दिने, तथा मृदुध्रुवक्षिप्रचरभानि प्रसिद्धानि, तेषु च शिशोर्बालस्य तजन्मसमयातिक्रांतं जातकर्मादि । आदिशब्देन नामकर्माप्युच्यते । तद्विधेयं कर्तव्यं स्यात् । उक्तं च वसिष्ठेन-मृदुध्रुवक्षिप्रचरेषु भेषु चारिक्तपर्वाख्यदिनेषु कार्यम् । शुभग्रहाणां दिनलग्नवर्गे तजातकर्म त्वथ नामधेयम् ॥' इति। रत्नमालायाम्-'मृ. दुध्रुवक्षिप्रचरेषु भेषु सूनोर्विधेयं खलु जातकर्म । गुरौ भृगौ वापि चतुष्टयस्थे संतः प्रशंसंति च नामधेयम् ॥' चतुष्टयं केंद्रम् । जातकर्मप्रयोजनमाह गुरुः-'जातकर्मक्रियां कुर्यात्पुत्रायुःश्रीविवृद्धये । ग्रहदोषविनाशाय सूतिकाऽशुभविच्छिदे ॥ कुमारग्रहनाशाय पुंसां सत्त्वविवृद्धये ॥' इति । अथ नामकर्मणि विशेषविचारः। नारदः-'सूतकांते नामकर्म विधेयं स्वकुलोचितम्' इति । तत्र नक्षत्रादिनियमाभावो नियतकालविहितत्वात् । तदुक्तं सारसंग्रहे–'एकादशेऽह्नि विप्राणां क्षत्रियाणां त्रयोदशे । वैश्यानां षोडशे नाम मासांते शूदजन्मनः ॥' इति। मनुस्तु-'नामधेयं दशम्यां तु द्वादश्यां