________________
नामकर्मण्यक्षरविचारः] संस्कारप्रकरणम् ५।
१७३ चास्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥' दशम्यामतीतायामेकादशे दिवसे इत्यर्थः । एतच्च ब्राह्मणविषयं, पूर्वोदीरितवाक्यस्वरसात् । अत्र नामकर्मणोऽपि विहितकालातिकमे शुक्रास्तादिदोषरहिते शुभकाले तत्कार्यम् । यदाह कश्यपः-'उक्तकाले प्रकर्तव्या द्विजानामखिलाः क्रियाः । अतीतेषु च कालेषु कर्तव्याश्चोत्तरायणे ॥ सुरेज्येऽप्यसुरेज्ये वा नास्तगे न च वार्धके । शुभलग्ने शुभांशे च शुभेऽह्नि शुभवासरे ॥ चंद्रताराबलोपेते नैधनोदयवर्जिते । पूर्वाह्ने क्षिप्रनक्षत्रे चरस्थिरमृदूडुषु ॥ नाम मंगलघोषैश्च रहस्यं दक्षिणश्रुतौ ॥' बृहस्पतिः- पूर्वाह्नः श्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः । अपराहं च रात्रिं च वर्जयेन्नामकर्मणि ॥' तथा जगन्मोहने गुरुः–'पक्षच्छिद्रां च नवमी हित्वा पंचदशीं तथा । शेषाः स्युस्तिथयः सर्वा नामकर्मणि पूजिताः ॥ भास्कराजभौमानां वर्जयेदंशकोदयौ । धनकर्मसुतभ्रातृनवमस्थः शुभः शशी ॥ शुद्धव्ययेऽष्टमे लग्ने पापाश्च व्यरिलाभगाः । शुभेषु शेषसंस्थेषु नामकर्म शुभावहम् ॥' इति । प्रयोजन च स्मर्यते-'नामाखिलस्य व्यवहारहेतुः शुभावहं कर्मसु भाग्यहेतुः । नाम्नैव कीर्ति लभते मनुष्यस्ततःप्रशस्तं खलु नामकर्म ॥' तञ्च नाम जन्मनक्ष
चरणलक्षितस्वरोदयाभिहितशतपदचक्रांतर्गताक्षरादिकमेव कार्यम् । उक्तं च गृह्यपरिशिष्टे-'तदक्षरादिकं नाम यस्मिन्धिष्ण्ये यदक्षरम्' । शतपदचक्रसारोद्धारो ज्योतिषार्केऽभिहितो यथा-'चूचेचोला पदेऽश्वाभे लीलूलेलो यमस्य भे। आईउए इमेग्नेर्भे ओवावीवू च धातृभे ॥ वेवोकाकी मृगे ख्याताः कूघङच्छास्तु रौद्रभे । केकोहाही त्वदितिभे हुहेहोडा च पुष्यभे ॥ डीडूडेडो इमे सापें मामीमूमे मघाभिधे । मोटाटीटू तथा भाग्ये टेटोपाप्यर्यमाके ॥ पूषाणाठा तथा हस्ते पेपोरारीति चित्रभे । रूरेरोता तथा स्वात्यां तीतूतेतो द्विदैवभे ॥ नानीनूने क्रमान्मैत्रे नोयायीयू इतींद्रभे । येयोभाभीति मूलाख्ये भूधाफाढा जलस्य भे ॥ भेभोजाजीति विश्वः जूजेजोखाभिजिनवेत् । खीखूखेखो श्रुतौ ज्ञेया गागीगूगे च वासवे ॥ गोसासीसू जलेशः सेसोदादीत्यजांघ्रिमे । दूजझथा तथोपांत्ये देदोचाचीति पौष्णभे ॥ इति प्रोक्ता इमे पद्ये वर्णानामादिजाः स्फुटाः । ज्ञेया मेषादिराशीनां नवभिनवभिः पदैः॥' एतैरादिमाक्षरैश्चूडामणिरित्यादिनामानि स्थाप्यानि । तदुक्तं शंखेन-'कुलदेवतानक्षत्रादिमाससंबद्धं नाम पिता वा कुर्यादन्योऽपि वा कुलवृद्धः' इति । मत्र केचित्-'जन्मनाम तु गोपयेत्' इति स्मरणाजन्मनक्षत्रसंबंधि नाम गुप्त संस्थाप्य व्यवहारार्थमन्यन्नाम कुर्यादित्याहुः । तच्च नाम कीदृशं कार्यमित्याह वसिष्ठः-'तद्वयक्षरं वा चतुरक्षरं वा यथेप्सितं चांतलकाररेफम् । विवयं नामादिकमेव कार्य स्फुटं वदेहक्षिणकर्णरंध्रे ॥' इति । याज्ञिका अपि पठंति-'घोषवदाद्यंतरंतस्थं त्रिपुरुषानेकमनरिप्रतिष्ठित व्यक्षरं वा कृतं कुर्यान तद्धितम्' इति । कृतं कृदंतं तद्धितं तद्धितांतं घोषवदादीनां वर्णानां कृदंततद्धितानां च ज्ञानं व्याकरणशास्त्राज्ज्ञेयम् । विश्वप्रकाशपद्धतौ तु विशेषः
१ अश्वाभे अश्विनीनक्षत्रे इत्यर्थः । तस्य अश्वमुखसदृशत्वात् । २ त्रिपुरुषाननु कायति अभिधत्ते इति त्रिपुरुषानूकम् । अन्येषामपीति पूर्वपददीर्घः ।