________________
१७४
मुहूर्तचिंतामणिः । [प्रसूताना मुहूर्तः 'कुमार्या अप्ययुजाक्षरेण नाम दद्याताम्' इति । मासनामानि वसिष्ठनोकानि-'चैत्रादिमासनामानि वैकुंठोऽथ जनार्दनः । उपेंद्रो यज्ञपुरुषो वासुदेवस्त्रिविक्रमः । योगीशः पुंडरीकाक्षः कृष्णोऽनंतोऽच्युतस्तथा । चक्रधारीति चैतानि क्रमादाहुर्मनीषिणः ॥' इति । कुलदेवतास्तु वंशपरंपरया प्रसिद्धाः । अत्रान्यो नामप्रयुक्तो विशेषः स्मृतिभ्योऽनुसंधेयः॥इति नामकर्म ॥ ११ ॥ -- अथ बालजन्मानंतरं प्राच्यशिष्टाचारप्राप्तं प्रसूतास्नानमुहूर्त वसंततिलकयाह
पौष्णध्रुवेंदुकरवातहयेषु सूती
खान समित्रभरवीज्यकुजेषु शस्तम् । नाात्रयश्रुतिमघांतकमिश्रमूल
त्वाष्ट्रे ज्ञसौरिवसुषइरविरिक्ततिथ्याम् ॥ १२ ॥ पौष्णेति ॥पौष्णं रेवती, ध्रुवाणि प्रसिद्धानि, इंदुर्मुगः, करो हस्तः, वातः . स्वाती, हयोऽश्विनी; एषु समित्रभरवीज्यकुजेषु अनुराधानक्षत्रसूर्यगुरुभौमवारसहितेषु सूत्याः प्रसूतायाः स्नान प्रशस्तमुत्तमफलदम् । तदुक्तं दैवशवल्लभे'उत्तरात्रयरोहिण्यः सौम्यः पवनरेवती । प्रसूता वनिता स्नायाद्धस्तमैत्राश्विनीषु च ॥ स्नाता प्रसूताप्यसुता बुधेन स्नाता च वंध्या भृगुनंदनेन । सौरे मृतिः क्षीरहतिश्च सोमे पुत्रार्थलाभो रविजीवभौमे ॥' अन्ये तु पूर्वाफल्गुनीज्येष्ठाधनिष्ठास्वपि सूतीनानं वदंति । 'करेंद्रभाग्यानिलवासवांत्यमैत्रेन्दवाश्विध्रुवभेऽह्नि पुंसाम् । तिथावरिक्ते शुभमामनंति प्रसूतिकास्नानविधि मुनींद्राः ॥' इति । अथ निषिद्धनक्षत्राण्युच्यन्ते।आत्रयमाापुनर्वसुपुष्याः, श्रुतिमघांतकमिश्रमूलत्वाष्ट्राणि प्रसिद्धानि । द्वंद्वैकवद्भावः । एषु दशनक्षत्रेषु सूतीस्नानं न शस्तं, पुनःसूतेरभावादिति तात्पर्यार्थः । तथा ज्ञो बुधः, सौरिः शनिः, तथा वसुः अष्टमी, षट् षष्ठी, रविदशी, रिक्ताः ४।९।१४, बुधशनिवारयोरेतासु तिथिषु च न शस्तम् । तदप्युक्तं दैवज्ञमनोहरे-भरणी कृत्तिका मूलमार्दा पुष्यः पुनर्वसुः । मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥ एषु मंदे बुधे वारे सूतीस्नानं न कारयेत् । यदि सानं प्रकुर्वीत पुनःसूतिर्न विद्यते ॥' इति । एतच्च दाक्षिणात्या नानुमन्यते यत्सूतिकास्नानं वदन् प्राच्य इति प्रष्टव्यःकिं सूतकमध्ये सूतिकास्नानं सूतकाबहिर्वा ? नायः कल्पः । यदि सूतकमध्ये, षष्ठिकापूजार्थं क्रियमाणमपि स्नानं चांडालहस्तश्तपुष्पवन्निष्फलमेव शुध्यभावात् । नापि द्वितीयः । सूतकानंतरमेव शुद्ध्यापादकस्नानस्य विहितत्वात् । यदपि दैवज्ञवल्लभवाक्यं तदाचारमूलकं, न स्मृतिमूलकमिति मत्वा संतोष्टव्यम् । अथ प्राच्यमतेनैव जन्मानंतरं बालस्य स्तनपानमुहूर्त उच्यतेऽस्माभिः"रिक्तां भौमं परित्यज्य विष्टिं पातं सवैधतिम् । मृदुध्रुवक्षिप्रभेषु स्तन्यपानं हितं शिशोः ॥' इति दैवज्ञवल्लभोक्तेः॥ इति सूतीस्नानम् ॥ १२ ॥
१ ‘मातापितरौ' इत्यत्र कर्ता बोध्यः ।