________________
अकालीनदंतोत्पत्तिस्तच्छांतिश्च ] संस्कारप्रकरणम् ५।
१७५ अथ प्रसंगतः संस्कारानंतर्गतमपि प्रथमादिमासोत्पन्नदंतफलं प्रसंगतः शार्दूलविक्रीडितेनाहमासे चेत्प्रथमे भवेत्सदशनो बालो विनश्येत्स्वयं
हन्यात्स क्रमतोऽनुजातभगिनीमात्रग्रजान्यादिके। षष्ठादौ लभते हि भोगमतुलं तातात्सुखं पुष्टता
लक्ष्मी सौख्यमथोजनौ सदशनो वोर्ध्व स्वपित्रादिहा ॥१३॥ मासे चेदिति ॥ बालकश्चेजन्मानंतरं प्रथमे मासे सदशनो दंतयुक्तो भवेत्स्यात्तदा स्वयं विनश्येत् । ततो न्यादिके द्वितीयादिके मासे स बालको दंतयुक्तो भवेत्तदाऽनुजातभगिनीमात्रग्रजान्हति । यथा-द्वितीयमासेऽनुजातं कनिष्ठभ्रातरं हंति । तृतीयमासे भगिनीं हति । चतुर्थमासे मातरं हंति । पंचमे मासि अग्रज ज्येष्ठभ्रातरं हंति । षष्टादिमासेषु दंतजन्म समीचीनफलम् । यथा-षष्ठे अतुलं बहुलं भोग लभते। सप्तमे तातात्पितृतः सुखं लभते। अष्टमे पुष्टताम् , नवमे लक्ष्मीम् , दशमे सौख्यम् । एतच्चोपलक्षणं एकादशेऽपि भासे सौख्यमेव, द्वादशे मासे सुखबाहुल्यं लभते इत्यर्थः। यदाह चंडेश्वरः-'प्रथमे दंतजननात्स्वयमेव विनश्यति । द्वितीये भ्रातरं हंति तृतीये भगिनीं तथा ॥ चतुर्थे मातरं हंति पंचमे चात्मनोऽग्रजम् । षष्ठे च मंत्रजीवी स्यात्सप्तमे पितृसौख्यदः ॥ अष्टमे पुष्टिजनको नवमे लभते धनम् । लभते दशमे मासि सौख्यमेकादशेऽपि वा ॥ द्वादशे धनसंपत्तिर्दन्तानां जनने फलम् ॥' इति । अथो इति । अथो जनौ जन्मकाल एव सदशनो दंतयुक्तः स्यात्तदा स्वपित्रादिहा स्वमात्मानं पितरं च आदिशब्देन मातरं च हंति नाशयतीति स्वपित्रादिहा । केचिदादिशब्देन भ्रात्रादीनामपि नाशं व्याचक्षते । वोर्ध्वमिति । वा अथवा ऊर्ध्व ऊर्ध्वपत्तौ स्वजन्मानंतरं निषिद्ध विहितेऽपि वा काले सदशनश्चेत्स्यात्तदापि स्वपित्रादिहा। आत्मपितृनाशक इत्यर्थः । उक्तं च पद्मपुराणे विष्णुधर्मोत्तरखंडे परशुरामं प्रत्याह पुष्करः'दंतजन्मनि बालानां लक्षणं तन्निबोध मे । उपरि प्रथमं यस्य जायंते व शिशोर्द्विजाः ॥' उपरि-उपरिपंक्तौ । द्विजाः दताः। 'दंतविप्रांडजा द्विजाः' इत्यभिधानात् । 'दतैर्वा सह यस्य स्याजन्म भार्गवसत्तम । मातरं पितरं चाथ खादेदात्मानमेव च ॥' इति । एवं विधे दंतजनने शांतिरप्युक्ता तत्रैव । 'तत्र शांति प्रवक्ष्यामि तन्मे निगदतः शृणु । गजपृष्ठगतं बालं नौस्थं वा सापयेविज ॥ तदभावे तु धर्मज्ञ कांचने तु वरासने ।' तदभावे-गजायभावे । 'सर्वोषधैः सर्वगंधै/जैः पुष्पैः फलैस्तथा ॥ पंचगव्येन रत्नैश्च मृत्तिकाभिश्च भार्गव । स्थालीपाकेन धातारं पूजयेत्तदनंतरम् ॥ सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम् । अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा । कांचनं रजतं गाश्च भुवं वा धनमेव च । दंतजन्मनि मासान्यसंभवे सप्तमादपि ॥ अष्टमेऽहनि विप्राणां शृणु स्नानमतः परम् ॥ भद्रासने निवेश्यैनं मृद्भिर्मूलफलै