________________
१७६
.., मुहूर्तचिंतामणिः। [दोलारोहणमुहूर्तः स्तथा । सर्वोषधैः सर्वबीजैः सर्वगंधैस्तथैव च ॥ नापयेत्पूजयेच्चात्र वह्निं सोमं समीरणम्' । समीरणं वायुं । 'पर्वतांश्च तथा ख्यातान् देवदेवं च केशवम् ॥ एतेषामेव जुहुयाइतमग्नौ यथाविधि । ब्राह्मणानां तु दातव्या यथाशक्त्या च दक्षिणा ॥ ततः स्वलंकृतं बालमासने तूपवेशयेत् । आसीनं छत्रमूर्धानं बीजैः सुस्तापयेत्ततः । सुस्त्रीभिर्बालकानां च तैः सुकार्य च पूजनम् । पूज्याश्चाविधवा नार्यों ब्राह्मणाः सुहृदस्तथा ॥' इति । एवं पद्मपुराणोक्ता सदंतजननशांतिर्विधेया, ततोऽशुभफलनाशपूर्वकशुभफलावाप्तिर्भवतीति ॥ इति प्रथमादिमासे दंतजननफलम् ॥ १३ ॥
अथ दोलारोहणमुहूर्त विवक्षुस्तत्संबंधिशुभाशुभफलदातृदोलाचक्रमनुष्टुभाहदोलारोहेऽर्कभात्पंचशरपंचेषुसप्तभैः। नैरुज्यं मरणं काय व्याधिः सौख्यं क्रमाच्छिशोः॥१४॥ दोलारोह इति ॥ काष्ठलोहायाधारोपनिबद्धः पुरुषाघातवशादंतरिक्ष गतागतं कुर्वनल्पो बालकयोग्यः पर्यकविशेषो दोलाशब्देनोच्यते । तत्र शिशोर्बालस्य दोलारोहे दोलास्थापने चिकीर्षिते सति अर्कभात्सूर्यनक्षत्रात्पंचनक्षत्रै रुज्यं नीरोगता स्यात् ,तदग्रिमपंचनक्षत्रैमरणं स्यात् , तदग्रिमपंचनक्षत्रैः काश्यं देहे कृशत्वं स्यात् , तदग्रिमैरिषुभिः पंचनक्षत्रैाधिः स्यात् , तदग्रिमससनक्षत्रैः सौख्यं स्यादिति यथासंख्यं योजना । फलं चेदं शिशोरेव संस्कार्यत्वात् । उक्तं च-'सूर्यभाञ्चंद्रभं यावत्पंचपंच चतुर्दिशम् । मध्ये तु सप्त देयानि दोलिकाचक्र उत्तमे ॥ पूर्वभागे निरोगत्वं दक्षिणे मरणं ध्रुवम् । पश्चिमे तु कृशो बाल उत्तरे व्याधिसंभवः ॥ शेषेषु सप्तधिष्ण्येषु बालकस्य सुखं भवेत्' इति ॥ १४ ॥ __ अथावसरप्राप्तं दोलामुहूर्त वसंततिलकायाः पूर्वार्धेनोत्तरार्धेन निष्क्रमणमुहूर्त चाह
दंतार्कभूपधृतिदिमितवासरे स्या
द्वारे शुभे मृदुलघुध्रुवभैः शिशूनाम् । दोलाधिरूढिरथ निष्क्रमणं चतुर्थ
मासे गमोक्तसमयेऽर्कमितेऽति वा स्यात् ॥१५॥ दंतार्केति ॥ दंताः द्वात्रिंशत् , अर्काः द्वादश, भूपाः षोडश, पृतयोऽष्टादश, दिशो दश; एतन्मितदिवसेषु तथा शुभे वारे सोमबुधगुरुशुक्राणां वारे तथा मृदुगणलघुगणध्रुवगणनक्षत्रैरुपलक्षिते शिशूनां बालानां दोलाधिरूढिः दोलायामधिरूढिरारोहः स्यात् । यदाह प्रयोगपारिजाते गुरुः-'दोलारोहस्तु कर्तव्यो दशमे द्वादशेऽपि वा । षोडशे दिवसे वापि द्वात्रिंशद्दिषसेऽपि वा।' इति । भविष्यपुराणे-'अभीष्टे पुण्यदिवसे चंद्रताराबलान्विते ।