SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सूतिकाया जलपूजा मुहूर्तः ] संस्कारप्रकरणम् ५ । मृदुध्रुवक्षिप्रभेषु माता वा कुलयोषितः । योगशायिहरिं स्मृत्वा प्राक्शीर्ष विन्यसेच्छिशुम् ॥' इति ॥ अथ प्रसंगतोऽन्येषामपि दोलारोहणमुहूर्तः प्रोच्यते । तत्र दीपिका – 'उमेंद्र मूलाहिशिवाग्निवर्ण्य शस्तेंदुतारातिथिलग्नयोगे । विष्टिक्षमापुत्रयमाहवर्ण्यमांदोलकारोहणमत्र शस्तम् ॥' इति । यमः=शनिः । अथ निष्क्रमणमुहूर्तः । तत्र चतुर्थमासे गमोक्तसमये यात्राभिहितसमीचीनतिथिवारनक्षत्रादिसहिते काले शिशूनां निष्क्रमणं निष्कमाख्यसंस्कारं पूर्वं गृहाद्बहिर्गमनं कुर्यात् । वा अथवार्कऽमितेऽह्नि द्वादशे दिवसे निष्क्रमणं कुर्यात् । यदाह मनुः - 'चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्' । गुरुरपि — 'गृहान्निष्क्रमणं सूनोश्चतुर्थे मासि कारयेत् | यात्रोक्ते समये मासि तृतीये द्वादशेऽहनि ॥' अत्र तृतीयमासोऽप्युक्तः । राजमार्तंडेनापि - 'मासे तृतीये शशिवृद्धिपक्षे क्षपाकरे शोभनगोचरस्थे । उत्पातपापग्रहवर्जिते भे निष्कासनं सौख्यकरं शिशूनाम् ॥' तदेतयोः पक्षयोर्यथागृह्यं व्यवस्था | मुहूर्तसंग्रहे तु विशिष्य तिथ्याद्युक्तं निष्क्रमणे - 'पूर्वपक्षः शुभः प्रोक्तः कृष्णश्चांत्यत्रिकं विना । रिकाषष्ट्यष्टमी दर्शद्वादशीश्च विवर्जयेत् ॥ चत्वार्यर्यमतस्त्रीणि वैश्वान्त्रीणि च बुध्यभात् । बुध्यभादुत्तराभाद्रपदात स्त्रीणि भानि च । मैत्रमादित्यपुष्यौ च रोहिणी च शुभावहाः ॥ झषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि च । सतां तु वारवर्गाश्च शुभदास्तूद्यास्तथा ॥ केंद्रत्रिकोणगाः सौम्याः पापाः षष्ठत्रिलाभगाः । उपनिष्क्रमणे शस्ता मातुलो वाहयेच्छिशुम् ॥' इति । अधोमुखानि 'मूलाहिमिश्रोग्रमधोमुखं भवेत् ' (२।१) इत्युक्तानि । उदया:= लग्नानि । एवंविधे सुलग्ने क्रियमाणस्य शिशुनिष्क्रमणकर्मणः फलमाह बृहस्पतिः - 'अथ निष्क्रमणं नाम गृहात्प्रथमनिर्गमः । अकृतायां क्रियायां स्यादायुः श्रीनाशनं शिशोः ॥ कृते संपद्विवृद्धिः स्यादायुवर्धनमेव च ॥' अत्र विशेषमाह यमः - 'तृतीये मासि कर्तव्यं शिशोः सूर्यस्य दर्शनम् । चतुर्थे मासि कर्तव्यमग्नेश्चंद्रस्य दर्शनम् ॥' इति । इति निष्क्रमणमुहूर्तः ॥ १५ ॥ अथ सूतिकाया जलपूजामुहूर्त भुजंगप्रयातेनाह कवीज्यास्त चैत्राधिमासे न पौषे जलं पूजयेत्सूतिका मासपूर्ती । बुधेंद्विज्यवारे विरिक्ते तिथौ हि श्रुतीज्यादितींद्वर्कनैर्ऋत्य मैत्रैः ॥ १७७ कवीज्येति ॥ कविः शुक्रः, इज्यो गुरुः, अनयोरस्ते; चैत्रमासे, तथाधिकमासे, तथा पौषमासे सूतिका जनयित्री मासपूर्ती सत्यां जलं नद्यादेरंबु न पूजयेत् । तथा बुधेंद्विज्यवारे बुधगुरुचंद्रवारे, तथा विरिक्ते रिक्तारहिते तिथौ हि निश्चितं तथा श्रुतिः श्रवणः, इज्यः पुष्यः, अदितिः पुनर्वसुः, इंदुर्मृगः, अर्को हस्तः, नैर्ऋत्यं मूलं, मैत्रमनुराधाः एतैर्नक्षत्रैः सहिते दिने सूतिका जनयित्री मासपूर्वौ सत्यां नद्यादेर्जलं पूजयेत् । अत्र मूलानुपलंभः । नन्वयं मुहूर्तो निष्क्रमणात्प्राङ् नामकरणानंतरं वक्तव्यः, प्राप्तकालत्वाद्व्युत्क्रमे कारणं न
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy