________________
मुहूर्तचिंतामणिः ।
[अन्नप्राशने मुहूर्तः
पश्याम इति चेच्छृणु,—क्रमस्त्वत्र शास्त्रीयो विवक्षितो जलपूजा ह्याचारप्राप्ता लौकिकीति क्रमानपेक्षा । अतः कालांतरेऽपि केचिज्जलपूजामाहुः । अथ मासानंतरं विहितो गवादिदुग्धपानविधिस्तन्मुहूर्तः प्राच्यमतेन मयोच्यते । श्रीधरीये - 'एकत्रिंशे वासरे वा द्वितीये जन्मर्क्षे वा शुद्धलग्नेऽनुकूले । शंखे क्षीरं संनिदध्याच्छिशूनां वक्रे धात्री पूज्यपूजां विधाय ॥' नृसिंहोऽपि - 'एकत्रिंशद्दिने चैव पयः शंखेन पाययेत् । अन्नप्राशननक्षत्र दिवसोदयराशिषु ॥' वक्ष्यमाणान्नप्राशनोक्तशुभदिवसे एकत्रिंशत्तमे धात्र्युपमाता गवादिक्षीरं शंखे निधाय मान्यपूजां च विधाय शिशुमुखे क्षीरं निदध्यादित्यर्थः ॥ १६ ॥
-
अथान्नप्राशनमुहूर्तं स्रग्धरावसंततिलकाभ्यामाह— रिक्तानंदाष्टदर्श हरिदिवसमथो सौरिभौमार्कवाएँ
लग्नं जन्मलग्नाष्टमगृहलवगं मीनमेषालिकं च । हित्वा षष्ठात्समे मास्यथ हि मृगदृशां पंचमादो जमासे नक्षत्रैः स्यात्स्थिराख्यैः समृदुलघुचरैर्बालकान्नाशनं सत् १७ केंद्र त्रिकोण सहजेषु शुभैः खशुद्धे लग्ने त्रिलाभरिपुगैश्च वदंति पापैः । लग्नाष्टषष्ठरहितं शशिनं प्रशस्तं मैत्राम्बुपानिलजनुर्भमसच्च केचित् ॥ १८ ॥
:
१७८
रिक्तेति ॥ केंद्रेति ॥ अथशब्दो मध्ये पठितोऽपि पद्यादौ ज्ञेयः । अथो अनंतरं निष्क्रमणानंतरमेवंविधे काले बालानामन्नाशनं प्रथमभोजनं सत् शुभफलदायि स्यादित्यन्वयः । तत्रैते वर्ज्यपदार्थाः - रिक्ताः ४ /९/१४, नंदा १।६।११, अष्ट ८, दर्श ३०, हरिदिवसं, द्वादशी १२, एतास्तिथीर्हित्वा उपलक्षणत्वात्तिथिक्षयं च तथा सौरिभौमार्कवारांश्च हित्वेत्यर्थः । यदाह नारदः'रिक्तां तिथिक्षयं नंदां द्वादशीमष्टमीमपि । त्यक्त्वान्यतिथयः श्रेष्ठाः प्राशने शुभवासराः ॥' इति । कश्यपोऽपि - 'द्वादशीमष्टर्मी रिक्तां नंदां चैव दिनक्षयम् । सूर्यार्किभौमवारांश्च त्यक्त्वान्यशुभवासरे ॥' नवान्नप्राशनमित्य - नुवर्तते । अत एवोक्तं जीर्णैः - 'द्वितीया च तृतीया च पंचमी सप्तमी तथा । त्रयोदशी च दशमी प्राशने तिथयः शुभाः ॥' इति । कचित्सूर्यबुधगुरुवाराः प्रशस्ता उक्ताः, अन्ये निषिद्धाः । उक्तं च- शशिशुक्रे च मंदाग्निः शनौ भौमे बलक्षयः । बुधार्कगुरुवारेषु प्राशनं हि शुभावहम् ॥' इति । तदेतन्निर्मूलत्वादुपेक्ष्यम् । दोषांतरमप्युक्तं नारदेन - 'न वैधृतौ व्यतीपाते विष्ट्यां गंडातिगंडयोः ः । शूले वज्रे न परिघे बालान्नप्राशनं हितम्' || अत्रैषां दोषाणां सामान्यतो निषेधे सिद्धे पुनर्वचनम् 'विष्टिरंगारकश्चैव', 'वज्रविष्कंभयोस्तिस्रः '