________________
जन्मनक्षत्रे प्रशस्तकार्याणि] संस्कारप्रकरणम् ५।
१७९ इत्यनयोरप्यपवादार्थम् । तेन स्वीयभोगपर्यंत निषेधः । लग्नमिति । जन्मक्षलग्ने जन्मराशिजन्मलग्ने ताभ्यामष्टमगृहमष्टमलवोऽष्टमनवांशश्च तौ गच्छति प्रामोत्येवंविधं लग्नं हित्वा । जन्मराशिजन्मलग्नाभ्यामष्टमलग्नमष्टमनवांशं च त्यजेदित्यर्थः । उक्तं च कश्यपेन-'जन्मराशिविलग्नाभ्यां नैधनेंऽशे च वर्जयेत् ।' इति । तथा मीनमेषालिकं च मीनमेषवृश्चिकलग्नानि हित्वा । यदाह जगन्मोहने कश्यपः-'गोऽश्वकुंभतुलाकन्यासिंहकर्कनृयुग्मृगाः। शुभदा राशयश्चैते न मेषझषवृश्चिकाः॥'इति । अश्वः धनुः। नृयुक्-मिथुनम् । मृगः मकरः, षष्ठा. दिति ल्यब्लोपे पंचमी । षष्ठमासमारभ्य सममासे षष्ठाष्टमदशमद्वादशमासेषु बालानामन्नप्राशनम् । पुंबालविषयमेतत् । अथानंतरं हि निश्चयेन मृगदृशां कन्यकानां पंचमादोजमासे विषममासे पंचमसप्तमनवमैकादशमासेषु अन्नप्राशनं सत् । उक्तं च वसिष्ठेन-'युग्मेषु मासेषु च षष्ठमासात्संवत्सरे वा नियतं शिशूनाम् । अयुग्ममासेषु च कन्यकानां नवान्नसंप्राशनमिष्टमेतत् ॥' अत्रायुग्ममासत्वं पंचममासादिति ज्ञेयम् । यदाह नारद:-'षष्ठे मास्यष्टमे वाथ पुंसां स्त्रीणां च पंचमे । सप्तमे मासि वा कार्य नवान्नप्राशनं शुभम् ॥' मनुस्तु-'षष्ठेऽन्नप्राशनं मासि' इत्याह । एवमनेककालाभिधाने कस्मिन्काले अन्नप्राशनं विधेयमिति संदेहः । किं समबलत्वात्सर्वेऽपि मुख्या एव काला उत कश्चिन्मुख्यगौणभाव इति । अत्र ब्रूमः-स्वस्वगृह्ये विशिष्यकालोऽनप्राशने उक्तः स मुख्यः । तत्र गुरुशुक्रास्तादिविचारं विनैव विधेयम् । इतरेषु गौणकालेषु विहितकालाननुष्ठाने सति निर्दोषे काले हि विधेयम् । यत्र स्वगृह्ये क्वचिद्विशिष्यकालो नाभिहितस्तत्र सर्वेषां साहितिककालानां तुल्यबलत्वाद्विकल्पो भवति । तत्रापि सदोष कालं विहाय निर्दोषे कालेऽन्नप्राशनं विधेयमिति फलितोऽर्थः । तत्रापि शुक्लपक्षे पूर्वाह्ने विधेयम् । 'शुक्लपक्षे च पूर्वाह्ने' इति नारदोक्तेः । नक्षत्रैरिति मृदुगणलघुगणचरणगणयुतैः स्थिराख्यनक्षत्रैर्बालकानप्राशनं स्यात् । 'चरस्थिरमृदुक्षिप्रनक्षत्रेषु शुभे दिने' इति कश्यपोक्तेः । जगन्मोहने वसिष्टोऽपि-'विष्णुरुष्णकिरणो हिमरश्मिर्वायुमित्रवरुणादितिचित्राः । अश्वितिष्यवसुपौष्णभरोहिण्युत्तराश्च शिशुभोजनताराः ॥' इति । अत्र विहितनक्षत्रेषु जन्मनक्षत्रं प्रशस्तमुक्तं नारदेन-'पट्टबंधनचौलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥ इति । 'बालानभुक्तौ व्रतबंधनेऽपि राजाभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहसीमंतयात्रादिषु मंगलेषु ॥' इति वसिष्ठोक्तेश्च । यत्तु गुरुवचनम् –'जन्मझकर्मनक्षत्रे आधान\ च वर्जयेत् । कर्णवेधं तथा यानं क्षुरकर्मान्नभोजनम् ॥' इति । एषां हि लक्षणमुक्तं मुहूर्तसंग्रहे-'जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञितम् । एकोनविंशमाधानं त्रयोविंशं विनाशभम् ॥' इति त्रयोविंशव्यतिरिक्तानां सर्वेषां जन्मनक्षत्रत्वमस्तीति, तद्वार्षिकनवानभोजनविषयकम् । अत एव लोकेऽन्नभोजनान्नप्राशनशब्दयोः साधारणाऽसाधारणत्वेन व्यवहारोपलंभात् । 'जन्मनक्षत्रगश्चंद्रः प्रशस्तः सर्वकर्मसु । क्षौर