________________
मुहूर्तचिंतामणिः । [ जन्म निषिद्धकार्याणि
भैषजवादाध्वकर्तनेषु च वर्जयेत् ॥' इति दीपिकायां निषेधानुपलंभाच्च । तस्मात्प्रथमदशमैकोनविंशेषु जन्मनक्षत्रेषु बालान्नप्राशनं प्रशस्ततरमिति वयं ब्रूमः । यदपि लल्लवाक्यम् —'हित्वैकं जन्मक्षं द्वे तारे जन्मसंज्ञिते शुभदे । उद्वाहे चोपनये यात्रायामन्नभोजने क्षौरे ॥' इति । यन्नक्षत्रे जन्म तज्जन्मनक्षत्रं दशमैकोनविंशं च जन्मतारेत्युच्यते लोकैः । एतदपि प्रागुक्तविषयमेवेत्यलमतिप्रसंगेन । तत्रापि विद्धनक्षत्रं सर्वथा निषिद्धमेव । तदुक्तं दीपिकायाम् - 'कर्णवेधे विवाहे च व्रते पुंसवने तथा । प्राशने चाद्यचूडायां विद्धमृक्षं परित्यजेत् ॥' इति । वेधकारो हि विवाहप्रकरणे वक्ष्यते । लग्नबलमाह- केंद्रेति । यद्यपि केंद्रशब्देन दशममपि स्थानमुच्यते तथापि न गृह्यते' खशुद्धे लग्ने' इति वक्ष्यमाणत्वात् । एवंसति केंद्राणि १/४/७ त्रिकोणं ९/५, सहजं ३; एषु स्थानेषु स्थितैः शुभग्रहैस्तथा त्रि ३ लाभ ११ रिपुगैः ६ पापग्रहैश्चोपलक्षिते लग्ने खशुद्धे दशमशुद्धिसहिते सर्वप्रहरहिते इति यावत् । एवंविधे लग्ने । लग्नाष्टषष्ठस्थानरहितमर्थादन्यस्थानस्थितं शशिनं प्रशस्तं वदंति मुनय इति शेषः । यदाह कश्यपः'त्रिकोणकेंद्र त्र्यांयेषु शुभैख्यायारिगैः परैः । अलग्ननिधनांत्यारिस्थानस्थेन हिमांशुना ॥' अन्नप्राशनं कुर्यादित्यनुवर्तते । भत्र लग्नस्थ चंद्रनिषेधः क्षीण चंद्रविषयः । नारदोऽपि - ' दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके । शुक्लपक्षे च पूर्वाह्णे सौम्ययुक्ते निरीक्षिते ॥ त्रिषष्टलाभगैः पापैः केंद्रधीधर्मगैः शुभैः । व्यंत्यारिनिधनस्थेन चंद्रेण प्राशनं शुभम् ॥' इति । अत्र दशमशुद्धिः सर्वग्रह राहित्यं, दशमस्थानरहित केंद्रं च केंद्रशब्देन विवक्षितम् । यदाह प्रयोगपारिजातेऽर्णवः'दशम स्थानगान्सर्वान्वर्जयेन्मतिमान्नरः । अन्नप्राशनकृत्येषु मृत्युक्वेश भयावहान् ॥' अत्र लग्नस्थचंद्रः प्रशस्तः, पूर्णचंद्रविषयत्वात् । एतच्चाग्रिमपद्ये वक्ष्यते । विशेषमाह अत्र गुरुः - 'शुकारज्ञाः क्रमाद्याताः सप्तमाष्टमधर्मभे । भोज्यभोक्तृनवत्वे तु सर्वथा मरणप्रदाः ॥' इति । शुक्रः सप्तमः भौमोऽष्टमः बुधो नवमश्च । भोज्यमन्नं गोधूमादि तस्य नवत्वे नवान्नत्वेन भक्षणीये सति भोक्तुरन्नप्राशनकर्तुर्बालकस्य नवत्वे सति वा एते ग्रहा मरणप्रदा इत्यर्थः । मैत्रेति । मैत्रांबुपानिला अनुराधाशततारकास्वात्योऽसत्यो निषिद्धा इति केचि - दाहुरिति परमतेनोपन्यासः । यथोक्तं श्रीपतिना - 'रेवतीश्रुतिपुनर्वसुहस्तब्राह्मतः पृथगपि द्वितये च । त्र्युत्तरे च गदितं पृथुकानां प्राशनं हि सनवान्न'विधानम् ॥' अस्यार्थः- रेवत्यादिभ्यः पंचभ्यो द्वितयेऽपि नक्षत्रे । कोऽर्थः ? रेवत्यश्विनी च श्रवणं धनिष्ठा च पुनर्वसुः पुष्यश्च हस्तश्चित्रा च रोहिणी मृगश्च उत्तरात्रयमेव । एवं त्रयोदशर्क्षेषु पृथुकानां बालानामन्नप्राशनं वार्षिकं नवानविधानं च गदितमिति । नारदादिभिस्तु चरस्थिरक्षिप्रमृदुनक्षत्रेषु इति षोडशनक्षत्राणामभिधानात् तत्र त्रयाणामनुराधाशततारकास्वातीनामाधिक्यमतः श्रीपतिमतमाश्रित्यैषां भानां निषिद्धत्वमुक्तं ग्रंथकृता । च पुनर्जनुर्भ जन्मनक्षत्रं चासत् । यदाह गुरुः - ' जन्मर्क्षे कर्मनक्षत्रे भाधान च वर्जयेत् । कर्णवेधं तथा यानं क्षुरकर्मान्नभोजनम् ॥' इति । विशेषावधा
१८०