________________
खानकाहफलानि ] संस्कारप्रकरणम् । रणमजामसां मतमेतत् । वस्तुतस्तु अन्नस्य भोजनं भन्नभोजसमिति व्युत्पत्ता वार्षिकनकामभोजनविषयकमेकादित्युतमस्माभिः पूर्वपञ्च ॥ १७ ॥१८॥ अथ ग्रहाणां स्थानवशात्फलान्यनुष्टुप्छंदोभ्यामाह
क्षीणेंदुपूर्णचंद्रेज्यज्ञभौमार्कार्किभार्गवैः। त्रिकोणव्ययकेंद्राष्टस्थितैरुकं फल ब्रहः ॥ १९ ॥ भिक्षाशी यज्ञकृद्दीर्घजीवी ज्ञानी च पिचरुक् ।
कुष्ठी चान्नक्लेशवातव्याधिमान्भोगभागिति ॥२०॥ क्षीणेंद्विति ॥ भिक्षाशीति ॥ त्रिकोणं ९ । ५, व्ययः १२, केंद्राणि दशमरहितानि १।४।७, अष्टौ ८; एषु स्थानेषु स्थितैः क्षीणेद्वादिभिरष्टभिहैभिक्षाशीत्यादिकं फलं यथासंख्येनोक्तम् । मुनिभिरिति शेषः । अथा एच स्थानेषु स्थितः क्षीणचंद्रश्चेत्तद्राऽन्नप्राशनकृद्धालो भिक्षाशी दरिद्रः स्यातू । कथा पूर्णचंद्र एतत्स्थानस्थितश्चेत्तदा ज्योतिष्टोमयज्ञकृत् । एवमिज्यो गुरुश्रेहीजीवी । ज्ञो बुधश्चेज्ज्ञानी स्यात् । भौमश्चेत्पित्तरुक् पित्तकृता रुक् यस्यासौ पित्तरुक् । अर्कश्चेत्कुष्ठी स्यात् । आर्किः शनिश्चेत्तदाऽन्नाभावसंबंधी लेशोऽन्नक्लेशः, वातप्रधानो व्याधिर्वातव्याधिः, एतौ विद्येते यस्यासौ अन्नकेचवातव्याधिमान्स्यात् । उपलक्षणत्वादाहुकेत्वोरप्येतत्फलं द्रष्टव्यम् । भार्गवः शुक्रश्चेत्तर्हि भोगभाक् स्थादित्यर्थः। उक्तं च रत्नमालायाम्-'रवी लग्ने कुष्टी धरणितनये पित्तगदभाक् शनौ वातव्याधिः कृशशशिनि भिक्षाशनरत्नः । बुधे ज्ञानी भोगी ह्युशनसि चिरायुः सुरगुरौ विधौ पूर्णे यज्वा भवति च नरः सनद इह ॥ कंटकात्यनिधनत्रिकोणगास्तत्फलं दद्वति यत्नतो ग्रहाः । षष्ठ इंदुरशुभस्तथाऽष्टमः केंद्रकोणगत ऐनिरन्नहृत् ॥' इनः सूर्यस्तस्यापत्यमैनिः= शनिः । अत्र लग्नस्थितानामेव ग्रहाणां फलाभिधानादन्यकेंद्रादिषु तदतिदेशात्फलेऽपि महत्त्वाल्पत्वकृत्तो विशेषो ध्येय इति निष्कृष्टोऽर्थः। अन्यथा सर्वकेंद्राधनुवादेन कुष्ट्यादिफलमेव ब्रूयात् ॥ अत एव वसिष्ठेन लग्नस्थितानामेव फलमुक्तम्-'कुष्ठी लग्नगते सूर्य क्षीणचंद्रे च भिक्षुकः। सत्रदः पूर्णचंद्रे स्यात्कुजे पित्तरुजार्दितः ॥ बुधे ज्ञानी गुरौ भोगी दीर्घायुर्भाग्यवान्सिते। वातरोगी शनौ राहो केतौ चानविवर्जितः ॥' इति । नारदादिभिरप्येवमुक्तम् । लग्नं विहायान्यकेंद्रस्थितानां ग्रहाणां तु सामान्यत एव फलं शुभाशुभमुक्तं तद्वाक्यं प्रागभिहितमस्माभिः । ग्रंथकर्ता तु लायचात् रत्नमालापद्यार्थमनुसृत्यैवमुक्तमित्यदोषः । पूर्णचंद्रक्षीणचंद्रयोर्लक्षणमन्नप्राशनप्रकरणे उक्तं वसिष्ठेन-'संपूर्णंडूभयाष्टम्योर्मध्येदुः पूर्णसंज्ञकः । विनष्टेंदूभयाष्टम्योमध्येऽसौ क्षीणसंज्ञकः॥' इलि । संपूर्णेदुः पूर्णिमा। मध्येंदुरित्यन्त्र छांदसः समासः । कुतः ? 'समर्थः पदविधिः' इति, 'सारेक्षमसमर्थ भवति' इति च माणात् । अथवा मध्ये इंदुरिति पदच्छेदः । तत्रायादेशे यलोवे च 'पूर्वत्रा
१६ मु० चि०