________________
मुहूर्तचिंतामणिः । [ बालस्याजीविकापरीक्षा
सिद्धम्' इत्यसिद्धत्वमाद्गुणे कर्तव्ये न भवति ' न मु ने' इत्यत्र नेति योगविभागात्तस्य चेष्टसिद्धिविषयत्वात् । विनष्टेदुः = अमावास्या, असाविति कृतपदच्छेदमध्येंदुशब्दस्थ इंदुः ॥ इति अन्नप्राशनम् ॥ १९ ॥ २० ॥ अथ भूम्युपवेशनमुहूर्त वसंततिलकयाहपृथ्वीवराहमभिपूज्य कुजे विशुद्धेरिक् तिथौ व्रजति पंचममासि बालम् । बद्धा शुभेsa कटिसूत्रमथ ध्रुवेंदु - ज्येष्ठ मैत्रलघु भैरुपवेशयेत्कौ ॥ २१ ॥
पृथ्वीति ॥ पृथ्वी च वराहश्चानयोः समाहारद्वंद्वः। पृथ्वीं वराहं चाभिपूज्य | कुजे विशुद्धे | भौमबले सतीत्यर्थः । अरिक्ते रिक्तारहिततिथौ सति तथा पंचममासि व्रजति लगति सति तथा शुभेऽह्नि शुभग्रहवारेषु तथा ध्रुवेंदु ज्येष्ठक्षेत्र लघुभैः रोहिण्युत्तरात्रयमृगज्येष्ठानुराधाश्विनीपुष्यहस्तैर्दशनक्षत्रैः उपलक्षिते काले बालं कटिसूत्रं पट्टसूत्रादिनिर्मितं कटिस्थले बद्ध्वा कौ पृथि - व्यामुपवेशयेन्मंत्र पाठपूर्वकमुपवेशनाख्यं संस्कारं कुर्यात् । उक्तं च पद्मपुराणे - 'पंचमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वे ग्रहाः शस्ता भौमो राम विशेषतः ॥ तिथिं च वर्जयेद्विक्तां शस्तानि शृणु भानि मे । उत्तरात्रितयं सौम्यं पुष्यक्षं शक्रदैवतम् ॥ प्राजापत्यं च हस्तं च शस्तमाश्विनमित्रभम् । वराहं पूजयेद्देवं पृथिवीं च तथा द्विजान् ॥' मंत्रा अपि तत्रैवोवास्ते लिख्यंतेऽस्माभिः - 'रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयु:प्रमाणं निखिलं निक्षिपस्व हरिप्रिये ॥ अचिरादायुषस्तस्य ये केचित्परिपंथिनः । जीत्रितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥ धारिण्यशेषभूतानां मातस्त्वमधिका ह्यसि । कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम् ॥ तस्योपवेशनं कृत्वा भूमौ ब्राह्मणभोजनम् । पूर्वं कृत्वा ततः कार्यमुत्सवं पूर्वव'द्विजः ॥' इति । उत्सवः = नीराजनादिः । यद्यपि ग्रंथकर्त्रा पंचममासि कर्तव्यं भूम्युपवेशनमन्नप्राशनतः प्राकू वक्तव्यं तथापि ज्योतिःशास्त्रकर्तृवसिष्ठाद्यनुक्तत्वात् क्रमबाधमंगीकृत्योक्तम् । सांप्रतं शिष्टानां त्वन्नप्राशनसमय एव भूम्युपवेशनानुष्ठानदर्शनाच्च ॥ २१ ॥
१८२
अथ परमतेनैव भूम्युपवेशनकाले एव जीविकापरीक्षां शालिन्याहतस्मिन्काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनीं च । स्वर्ण रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा ॥ २२ ॥
तस्मिन्काल इति ॥ स्पष्टार्थ पद्यम् । आजीवैर्जीविकाभिः । 'आजीवो जीविका वार्ता' इत्यभिधानात् । यदाह मार्कडेयः - 'अग्रतोऽथ प्रविन्यस्य रत्नभांडानि सर्वशः । शस्त्राणि चैव वस्त्राणि ततः पश्येत्तु लक्षणम् ॥