________________
शिशोस्तांबूलभक्षणमुहूर्तः] संस्कारप्रकरणम् ५।
१८३ प्रथमं यत्स्पृशेद्धालो रिंगमाणः स्वयं तदा । जीविका तस्य बालस्य तेनैव तु भविष्यति ॥' इति । बहुधा तु जीविकापरीक्षामन्नप्राशनसमय एक कुर्वतीति शिष्टाचारः । इदं पधं ग्रंथकर्तुः मुहूर्तविचारार्थ प्रवृत्तस्य हि वक्तुमनुचितं मुहूर्तविचारस्यात्राऽप्रतिपादनात् । किंतु धर्मशास्त्रकर्तृणामुचितोऽयं विचारो यतस्ते संस्कारार्थ प्रवृत्ता इति ॥ २२ ॥ अथ शिशोस्तांबूलभक्षणमुहूर्त स्नग्धरयाहवारे भौमार्किहीने ध्रुवमृदुलघुभैर्विष्णुमूलादितींद्र___ खातीवस्वभ्युपेतैमिथुनमृगसुताकुंभगोमीनलने । सौम्यैः केंद्रत्रिकोणैरशुभगगनगैः शत्रुलाभत्रिसंस्थै
स्तांबूलं सार्धमासद्वयमितसमये प्रोक्तमन्नाशने वा ॥२३॥ वार इति ॥ भौमार्किभ्यां मंगलशनिभ्यां हीने रहिते वासरे सति श्रवणमूलपुनर्वसुज्येष्ठास्वातीधनिष्ठायुक्तैः ध्रुवमृदुलघुनक्षत्रैः उपलक्षिते काले तथा मिथुनं, मृगः मकरः, सुता कन्या, कुंभः, गौर्वृषः, मीनः; एषामन्यतमे लगे सौम्यैः सौम्यग्रहैः केंद्र त्रिकोणगतैः अशुभगगनगैः पापग्रहैः शत्रुलाभत्रिसंस्थैः षष्ठैकादशतृतीयस्थानस्थितैः सहिते सति बालकस्य तांबूलं लक्षणया तांबूलभक्षणं. प्रोक्तमित्यर्थः । यदाह दीपिकाकारः-'मूलादितिद्रविणतिष्यकरोत्तरासु पोष्णाश्विविष्णुरजनीकरशक्रभेषु । वारेषु सूर्यशशिजीवसितेंदुजानां तांबूलभक्षणविधिः कथितः शिशूनाम् ॥ दुश्चिक्यलाभभवनारिंगताश्च पापाः सौम्यग्रहा नवमपंचमकंटकस्थाः । आरोग्यशांतिशुभभाग्यसुखोपभुक्त्यै तांबूलभक्षणविधौ मुनिभिः प्रदिष्टाः ॥' इति । द्रविणं धनिष्ठा । चित्रानुराधयोग्रहणं राजमार्तडवचनात्-'दिनकरचंद्रसमीरणमैत्रं पुष्यपुनर्वसुरेवतिचित्रम् । घटमृगमन्मथकन्यकलग्नं पूगफलाशनमेभिरिहेष्टम् ॥' पूगफलग्रहणं तांबूलोपलक्षणम् । रोहिणीस्वात्योर्ग्रहणे मूलं नास्ति । मीनवृषयोर्मूलं नास्ति । एतच्च कस्मिन्काले कार्यमित्यत आह-सार्धति । जन्मकालात्सार्धमासंद्वयमितसमये तांबूलदानं प्रोक्तम् । यदाह चंडेश्वरः-'सार्धमासद्वये पूर्ग तांबूलं वा शिशोर्हितम् । षड्भी रत्नभुजो मासै गभागी भवेन्नरः॥' वा अथवा । अन्नाशने अन्नप्राशनसमये वा प्रोक्तम् । एतच्च शिष्टाचारदर्शनादुक्तम् । तदा मुहूर्तविचाराऽनुन्मेषः । यदा सार्धे मासद्वये तांबूलभक्षणं विहितं तदा मुहूर्तविचारो युक्त एव । अथ प्रसंगतोऽन्येषामपि तांबूलभक्षणमुहूर्तः प्रोच्यतेऽस्माभिः । तदुक्तं दीपिकायाम्-'मूलाश्विमैत्रकरतिष्यहरीदुभेषु पौष्णे तथा मृगशिरोदितिवासवेषु । अदुजीवभृगुबोधनवासरेषु तांबूलनूतनदलाद्यशनं शुभाय ॥' दलानि पर्णानि । विशेषः स्मृतिभ्योऽनुसंधेयः । यथा-'तांबूलं सुष्टु यो दद्याद्राह्मणेभ्योऽतिभक्तितः। मेधावी सुभगः प्राज्ञो दर्शनीयश्च जायते ॥ फलेन तृप्यते ब्रह्मा पत्रेण भगवान् हरिः। । १ मन्मथः मिथुनम् ।