________________
१८४
मुहूर्तचिंतामणिः कर्णवेधमुहूर्त पूर्णमीश्वरतपयै स्यात्तांबूलाशनदानतः ॥ एकछित्रिचतुष्पंचभिः पूरीः फलानि च । लाभालाभौ सुखं दुःखमायुनरणमेव च ॥ पर्णमूले भवेव्याधिः पनि धनसंक्षयः । चूर्णपर्ण हरत्यायुः शिरा बुद्धिविनाशनी । पर्णानं पर्णपई वा चूर्णपर्ण द्विपर्णकम् । रात्रौ खदिरतांबूलं शक्रस्यापि श्रियं हरेत् ॥ मशास्त्रविधिना पर्ण पूगं खादति यो नरः। सहजन्मदरिद्रः स्यादते विष्णु न संस्मरेत् ॥' इति ॥ २३ ॥
मथ कर्णवेधमुहूर्त सन्धरयाहहित्वैतांश्चैत्रपौषावमहरिशयनं जन्ममासं च रिक्तां
युग्माब्दं जन्मतारामृतुमुनिवसुभिः संमिते मास्यथो का। जन्माहात्सूर्यभूपैः परिमितदिवसे ज्यशुक्रंदुवारे
ऽथौजाब्दे विष्णुयुग्मादितिमृदुलघुभैः कर्णवेधःप्रशस्तः॥ हिस्वति । तापदार्शन्हित्वाकर्णवेधः प्रशस्त इत्यादयः । एतान्कान् ? त्र चैत्र पौषं चमासा सवम दिनक्षयम् । हरिशायनमाषाढ शुक्लैकादशीमारम्य कार्तिक शुक्लैकादशीपर्यतम् । जन्ममासम् 'भारभ्या जन्मदिवस वायशिदिनं भवेत् । जन्ममासः स विज्ञेयो गर्हितः सर्वकर्मसुः॥' इति लक्षणलक्षितम् । रिक्त तिथि ४ । ९ । १४, युग्माब्दं समवर्ष द्वितीयचतुर्थादिकं, जन्म सारा प्रथमदशमैकोनविंशात्मिकां हित्वा । उक्तं च व्यवहारोच्चा 'न जन्ममासे नच चैत्रपौषे न जन्मतारासु हरौ प्रसुप्ते । तिथाकरिक्त नच विष्टिदुष्टे कर्णस्य वेधो न समेऽपि वर्षे ॥' इति ॥ अत्र चैत्रस्य नियो मीनार्कविषयः । पौषनिषेधो धनुरर्कविषयः । अन्यथा-कार्तिके पौषमासे का चैत्रे वा फाल्गुनेऽपि वा। कर्णवेध प्रशंसति शुल्ले पो सुभेऽहनि।' इति व्यासवचनमसंगतं स्यात् । अत्र कार्तिकशुलपक्षकादशीतः कार्तिकः प्रशस्तः, पूर्वस्य देवशयनसत्त्वानिषेधः । अत्र जन्ममासे वज्यातराण्यण्याह प्रयोगपारिजाते व्यास:-'यो जन्ममासे क्षुरकर्म यात्रां कर्णस्य वेधं कुरुते हि मोहात् । मूढः स रोगी धनपुत्रनाशं प्रामोति गूढं निधनं तदाशु ।' इति । विहितकालमाह-ऋत्विति । ऋतवः षद, मुनयः सप्त, क्सवोऽष्टी, एतैः संमिते गणिते मासि षष्ठे मासे ससमे मासेऽष्टमे माले वा, माथो वा जम्माहाजन्मदिवसात् सूर्यभूपैदिशभिः षोडशभिर्वा परिमिते गणिते दिक्से सौरसावने कर्णवेधः प्रशस्त उक्तः । यदाह जगन्मोहने वसिष्ठः--'मासे षष्ठे सतमें वाऽष्टमे वा वेध्यौ कौँ द्वादशे षोडशेऽह्नि। मध्ये चाह्नः पूर्वभागेन रात्रौ' इति । यदा तु षष्ठमासादौ कर्णवेधश्चिकीर्षितः तदा तिथीनाह जगन्मोहने वसिष्ठः-'द्वितीया दशमी षष्ठी सप्लमी च त्रयोदशी । द्वादशी पंचमी शस्ता तृतीया कर्णवेधने॥' इति । शेज्यशुक्रंदुवार इति । बुधबृहस्पतिशुक्रचंद्रवारेषु प्रशस्तः कर्णवेधः । यदाह जगन्मोहने वसिष्ठः-'भूमिजार्कात्मजार्काणां दारान्संवर्जयेत्सुधीः । जीवेंदुजेंदुशुक्राणां दिवसाः परिपूजिताः ॥