________________
मुहूर्तचिंतामणिः। [धान्यस्थिति-वृद्धिमुहूर्ताः द्वीशाजपानिक्रतिधातृशतार्यमः
. सस्यस्य रोपणमिहार्किकुजौ विना सत् ॥ ३२॥ . भाग्येति ॥ भाग्य-पूर्वाफल्गुनी, अर्यमा उत्तराफल्गुनी, विधाता-रोहिणी, अन्यान्यतिप्रसिद्धानि; एषु नव नक्षत्रेषु कणाश्चणकादयस्तेषां मर्दनं यष्ट्याद्याघातादिना वितुषीकरणं सत्। समीचीनमित्यर्थः। तदुक्तं व्यवहारोच्चये-'फल्गुन्यो श्रवणश्चैव मघा मूलं तथा मता । अनुराधा तथा ज्येष्ठा रेवती धान्यमर्दने ॥ केवले सिंहलग्ने वा गुरुशुक्रोदयेऽथवा ॥' इति । एवमत्राष्टौ भान्युक्तानि, रोहिण्यांमर्दनं कुर्यात्' इति राजमार्तडोक्तेः रोहिण्युपादानं च । तवाक्यमिदम्-'हस्ते च वापयेद्बीजं संग्रहं वैश्वदैवते । रोहिण्यां मर्दनं कुर्यादुत्तरासु प्रवेशयेत् ॥' इति । अत्र कर्मविशेषेष्वेकस्यैव नक्षत्रस्योपादानमतिमुख्यतासूचनार्थ, न वितरनिषेधार्थम् । कुतः? वाक्यांतराणां वैयर्थ्यापत्तेरिति । अथ द्वीशं-विशाखा, अजपात्-पूर्वाभाद्रपदा, नितिः मूलं, धाता-रोहिणी, शत-शततारका, अर्यमर्श उत्तराफल्गुनी; एषु षदसु भेषु सस्यस्य धान्यस्य रोपणं पूर्ववापितस्थानात्स्थलांतर आरोपणं सच्छुभम् । इह सस्यरोपणे आर्किकुजौ शनिभौमौ विना त्यक्त्वाऽन्यवारेषु सूर्यचंद्रबुधगुरुशुक्रवारेषु कार्य सस्यस्य रोपणम् । उक्तं च राजमार्तडे–'पूर्वाभाद्रपदामूलं रोहिण्युत्तरफल्गुनी । विशाखा वारुणं चैव धान्यानां रोपणे वराः ॥' इति ॥ ३२॥ अथ धान्यस्थितिधान्यवृद्धिमुहूतौ वसंततिलकेनाह
मिश्रोग्ररौद्रभुजगेंद्रविभिन्नभेषु
कर्काजतौलिरहिते च तनौ शुभाहे । धान्यस्थितिः शुभकरी गदिता ध्रुवेज्य
द्वीशेंद्रदनचरभेषु च धान्यवृद्धिः ॥ ३३ ॥ • मिश्रोग्रेति ॥ मिश्रं विशाखाकृत्तिके, उग्रं-पूर्वात्रयभरणीमघाः, रौद्रं आर्द्रा, भुजगः आश्लेषा, इंद्रः ज्येष्ठा; एभ्यो दशभ्यो विभिन्नेष्वन्येषु सप्तदशसु मेषु नक्षत्रेषु; तथा कर्कः, अजः मेषः, तौलिः=तुला; एतैर्विहीनतनौ मकरस्थिरद्विस्वभावराशिलनेषु तथा शुभाहे शुभग्रहाणां वारे धान्यानां स्थितिरेकत्र राशीकरणं नाम सा निगदिता। उक्तं च दीपिकायाम्-'याम्याग्निरुद्राहिविशाखपूर्वामाहेंद्रपित्र्येतरभैः शुभाहे । धान्यादिसंस्थापनमेषु शस्तं मृगस्थिरव्यंगगृहोदयेषु ॥' इति । अथ ध्रुवाणि प्रसिद्धानि, इज्यः-पुष्यः, द्वीशं-विशाखा, इंद्रः ज्येष्ठा, दस्रावश्विनी, चराणि प्रसिद्धानि; एषु धान्यवृद्धिः त्वं मह्यमेतावत् धान्यं देहि, ततोऽहं मासद्वयेन तुभ्यं तद्धान्यं सपादं साधं वा दास्यामि इत्येवंरूपा सा निगदिता । उक्तं च दीपिकायाम्-'श्रवणत्रयं विशाखाध्रुवपुष्यपुनर्वसूनि वायुश्च । अश्विन्यथ च ज्येष्ठा धनधान्यविवर्धने शस्ताः ॥' इति ॥३३॥