________________
कणमर्दन सस्यरोपणे मुहूर्ता:] नक्षत्रप्रकरणम् २ |
मित्रयुगे लघुषु वारुणे विष्णौ । बस्तिविरेचनवेधाः शुभदिनतिथिचंद्रलग्नेषु ॥ इति । वारे संमत्यभावः । अथ बुधार्की बुधशनैश्चरावपास्यान्यवारेषु पूर्वोक्तनक्षत्रेषु च विरेकवमनाद्यम्; औषधेन सुखप्रवृत्तिर्विरेकः, वमनं प्रसिद्धमेव, तदाद्यं कर्म कार्यं उक्तं । अथ मित्रक्षिप्रचरध्रुवे एषु त्रयोदशनक्षत्रेषु तथा रवौ रविवारे शुभाहे चंद्रबुधगुरुशुक्रवारेषु धर्मक्रिया कोटिहोमरुद्रानुष्ठानादिका कार्या । उक्तं च दीपिकायाम् — 'शुभग्रहार्कवारेषु मृदुक्षिप्रश्रुवोडुषु । शुभराशिविलग्नेषु शुभं शांतिकपौष्टिकम् ॥' इति । शांतिकं=धर्मकृत्यं कोटिहोमाद्यम् । अथ विदो बुधस्य जीवस्य गुरोर्लग्नवर्गे यस्मिन् कस्मिंश्चिल्लग्ने गुरुबुधयोः षड्वर्गे सति तनौ लग्ने च गुरौ सति कर्तुश्च गुरुबले सति धर्मक्रिया हिता निगदिता । उक्तं च रत्नमालायाम् - ‘हिबुकेऽर्के गुरौ लग्ने धर्मारंभो रवेर्दिने' इति । अन्यच्च – 'श्रुतिस्मृतिपुराणादिप्रोक्तानां धर्मकर्मणाम् । गुरुज्ञलग्नवर्गेषु प्रारंभस्तद्वले सति ॥' इति । षड्वर्गज्ञानं विवाहप्रकरणे ग्रंथकर्तेव वक्ष्यति ॥ ३० ॥ अथ धान्यच्छेदमुहूर्तं वसंततिलकेनाहतीक्ष्णाजपादकरवह्निवसुश्रुतदुस्वातीमघोत्तरजलान्तकतक्षपुष्ये । मंदाररिक्तरहिते दिवसेऽतिशस्ता
७५
धान्यच्छिदा निगदिता स्थिर विलग्ने || ३१ ॥ तीक्ष्णाजपादेति ॥ तीक्ष्णसंज्ञानि = मूलज्येष्ठार्द्राश्लेषाः, अजपादः=पूर्वाभाद्वपदा, अन्यानि प्रसिद्धानि, तक्षा - चित्रा, पुष्यश्चः एतेष्वेकोनविंशतिनक्षत्रेषु तथा मंदः = शनिः, आरः = मंगलः, रिक्तातिथयः प्रसिद्धाः; एतेषां समाहारो मंदाररिक्तं तेन रहिते विहीने दिवसे तथा स्थिरभे स्थिरराशौ लग्ने सति धान्यच्छिदा धान्यच्छेदनम् । 'षिद्भिदादिभ्योऽङ्' इत्यङ्, स्त्रियां टाप् । धान्यानां यवादीनां छिदा निगदितोक्ता । निष्पन्नधान्यानां छेदनं कार्यमित्यर्थः । यदाह राजमार्तडः - ' रौद्रे पित्र्ये तथा सौम्ये हस्ते पुष्येऽनिले तथा । सस्यच्छेदं प्रशंसंति मूलश्रवणवासवे ॥' इति । दीपिकायां तु - ' याम्याजपादहिधनानलतोयशऋचित्रोत्तरोडुषु कुजार्कजवारवर्ज्यम् । रास्तेंदुयोगकरणेषु तिथावरिक्ते धान्यच्छिदा स्थिरनरस्वगृहोदयेषु ॥' इति । अहिः = आश्लेषा । अत्र पूर्ववाक्ये नव नक्षत्राण्युक्तानि । द्वितीयवाक्ये एकादश भानि । वाक्यद्वये धनिष्टोपादानात्तत्यागे एकोनविंशतिभान्येव संपद्यंते । तानि वचनद्वयप्रामाण्याड्रंथकर्त्रीपनिबद्धानि । व्यवहारतत्त्वे तु वारावुक्तौ - 'धान्यानां लवनं कुर्यारौ शुक्रे च सर्वदा' इति ॥ ३१ ॥ अथ कणमर्दनसस्यरोपणमुहूतौं वसंततिलकेनाह— भाग्यार्यमश्रुतिमघेंद्रविधातृमूलमैत्रांत्यभेषु कथितं कणमर्दनं सत् ।