________________
७४
मुहूर्तचिंतामणिः। [धर्मक्रियामुहूर्ता; कृद्धाताय शूलत्रये । धिष्ण्यानां नवकं तदंतरगते स्यातां श्रियै पंचके यच्चान्यत्रितयं तदत्र कथितं चक्रे शुभं लांगले ॥' इति श्रीपतिवाक्यालोचनेनोक्तम् । तथा हि-अर्काक्रांतगतागतानि भान्यनडुहां वृषाणां नाशाय स्युः । तदनतो भत्रयं वृद्ध्यै । ततः शूलत्रये धिष्ण्यानां नवकं लेख्यं कृषिकद्धाताय स्यात् । शूलत्रयमध्यगते पंचके नक्षत्रदशकमित्यर्थः । श्रियै स्याताम् । यच्चान्यत्रितयं नक्षत्रत्रयं शुभं स्यात् । एवं सति हलचक्रन्यासः । अनेन प्रकारेण इनप्रोज्झितात्रीणीत्यादीनि शुभाशुभानि भानि संभवंतीति चेत्, तदेतदविचारितरमणीयम् । न ह्ययं श्रीपतिवाक्ये शब्दार्थ उच्यते, किंतु मूलवाक्यादर्शनाबोधपुरःसरस्वाज्ञानप्रकाशकः। शब्दार्थस्त्वयम्-अर्काक्रांतगतागतानि त्रीणि भानि वृषनाशकराणि स्युः। हलमध्यमभागप्रांते ततस्त्रीणि वृद्ध्यै हलदंडाधोभागे । ततः पंचनक्षत्राण्यपास्याग्रिमाणि नवभानि शूलत्रये त्रिकं त्रिकं कृषिकृद्धाताय स्थाप्यानि । नन्वत्र पंचनक्षत्रत्यागे को हेतुरित्यत आह-तदं-. तरगत इति । तच्छब्देन हलोज़दंडशूलोज़दंडावुच्येते । तयोरंतरगते मध्ये विद्यमाने पंचकं च पंचकं च पंचके श्रियै स्थाप्ये । नक्षत्रदशकमिति यावत् । तञ्चान्यद्भत्रितयं हलदंडोर्ध्वभागे शुभफलदं लेख्यम् । एवं सति ऋषिवाक्यैः सहास्यैकार्थता संपद्यते । यत्तु महेश्वरः-'सूर्याधिष्ठितभात्रिवेदविषयांकांशेशविश्वार्ककैस्तुल्यान्येष्यगतानि भानि मुनिभिः प्रोक्तानि शस्तानि च । आये लांगलयोजने' इत्युवाच, तदपि चिंत्यमेव । यत्त्वेवमेव टोडरानंदे ‘अर्काक्रान्ते' इत्यादिपद्यव्याख्यानं पितृचरणकृतं, तदपि स्पष्टार्थवसिष्ठाषिवाक्यविशेषादर्शनकृतं प्रतिभाति । विशेषवाक्यादर्शने हि सामान्यवाक्यस्य नानाविधोऽर्थो व्याकर्तुं शक्यते । विशेषदर्शने तु सामान्यवाक्यस्य विशेष एव पर्यवसानमित्यलमतिप्रसतानुप्रसक्तेन । अत्र हलचके बीजोप्तिचक्रे वा विहितनक्षत्राणामिष्टफलदस्थानपाते सत्येव परिग्रहो न्याय्यः, अन्यथात्वे त्यागः । निषिद्धानां तु सर्वथैव त्याग इति निष्कृष्टोऽर्थः ॥ २९॥ अथ शिरोमोक्षविरेकादिधर्मक्रियामुहूर्तान् शार्दूलविक्रीडितेनाहत्वाष्ट्रान्मित्रकभावयेंऽबुपलघुश्रोत्रे शिरामोक्षणं
भौमार्केज्यदिने विरेकवमनाचं स्यादुधार्की विना । मित्रक्षिप्रचरध्रुवे रविशुभाहे लग्नवर्ग विदो
जीवस्यापि तनौ गुरौ निगदिता धर्मक्रिया तदले ॥३०॥ त्वाष्ट्रादिति ॥ त्वाष्ट्रावयं-चित्रास्त्रात्यौ, मित्राद्वयं अनुराधाज्येष्ठे, कभाद्वयं-रोहिणीमृगौ, अंबुपः शततारका, लघूनि-अश्विनीपुष्यहस्ताभिजितः, श्रोत्रं-श्रवणः,-एषु नक्षत्रेषु; तथा भौमार्केज्यदिने=मंगलगुरुरविवासरेषु शिरामोक्षणं रुधिरवाहिनी नाडी शिरा तस्या मोक्षणं सूक्ष्मशस्त्रघातेन शिरातो रक्तमोक्षणं कुर्यादित्यर्थः। उक्तं च ज्योतिःसारसागरे-'चित्रायुगे विधियुगे