________________
हलचक्रम् ]
नक्षत्रप्रकरणम् २ |
कज्जलमन्नवृद्धिरधिका निस्तंदुलत्वं क्रमात्स्यादीतिप्रभवं भयं च फणिभाद्वीजोप्तिकाले स्फुटम् ॥' इति । अत्र केचित् फणिभात्सूर्यनक्षत्रादिति व्याचख्युः । तत्र युक्तिः-'सूर्यभादुरगः स्थाप्यः' इति स्वरोदयवाक्यैकवाक्यभावात् । तन्न । नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात् । 'राहुधिष्ण्यात्समारभ्य धिष्ण्येप्वष्टसु निष्फलम्' इति कश्यपोक्तेश्च । 'सूर्य भादुरगः स्थाप्यः' इति तु स्वरोदयवचनम् ॥ बीजवापने लग्नशुद्धिमाह वसिष्ठः - 'भवरिपुसहजे पापैस्त्रिकोणकेंद्रस्थितैश्च शुभैः । कथितेषु च धिष्ण्येष्वपि शुभलग्ने बीजवापनं कार्यम् ॥' इति । अथ हलप्रवहणे चक्रमुच्यते-हले इति । हले हलचक्रेsaज्झितात्सूर्य मुक्ताद्भान्नक्षत्रात् क्रमेण त्रीणि नक्षत्राणि असंति अशुभफलानि । ततोऽष्ट भानि संति शुभफलदानि । ततो नव भान्यसंति । ततोऽष्टौ भानि संति । यथा- - सूर्य आर्द्रायां भुक्तभं मृगः, तत आरभ्य त्रीणि मृगार्द्रापुनर्वसुभान्यशुभानि । ततः पुण्याश्लेषामघापूर्वाफल्गुन्युत्तराफल्गुनीहस्तचित्रास्वातीनक्षत्राणि शुभानि । ततो विशाखानुराधाज्येष्ठा मूल पूर्वाषाढोत्तराषाढाभिजिच्छ्रवणधनिष्टानक्षत्राणि अशुभानि । ततः शततारकापूर्वाभाद्रपदोत्तराभाद्वपदा रेवत्यश्विनी भरणीकृत्तिकारोहिणीनक्षत्राणि शुभानि । एवमष्टाविंशतिभानि भवति । यदाह वसिष्ठः – 'अर्कगतागतसंस्थं भत्रितयं नेष्टमुभयतस्त्विष्टम् । षोडशधिष्ण्यं नवकं शिष्टमनिष्टं च लांगले चक्रे ॥' इति । अर्केण गतं भुक्तं, अगतं भोग्यं संस्थमाक्रांतं; एतद्भत्रितयं नेष्टम् । तत उभयतः षोडशधिष्ण्यं इष्टम् । यथा - सूर्य भुक्तभात्प्राक्तनान्यष्टौ शुभानि, सूर्यभोग्यभा
नानि शुभानि स्युरित्यर्थः । शिष्टमुर्वरितं मध्यगतनक्षत्रनवकमनिष्टं, एवमत्राप्यष्टाविंशतिभानि । नारदोऽपि - 'हलादौ वृषनाशाय भत्रयं सूर्यभुक्तभात् । अग्रे ऋक्षत्रयं लक्ष्म्यै सौख्यं पार्श्वस्थपञ्चके || शूलत्रयेऽपि नवकं मरणायान्यपंचकम् । श्रियै पुच्छत्रयं श्रेष्टं स्याच्चक्रे लांगले शुभे ॥' इति । अस्यार्थः- हलप्रवहणसमये सूर्यभुक्तनक्षत्रान्नक्षत्रत्रयं वृषनाशाय स्यात् । तदग्रे नक्षत्रत्रयं लक्ष्म्यै स्यात् । तदग्रे पार्श्वनक्षत्रपंचकं सौख्याय स्यात् । तदग्रे शूलत्र्यगतं नक्षत्रनवकं मरणाय स्यात् । तदग्रेऽन्यत्पार्श्वपंचकं श्रियै स्यात् । तदग्रे पुच्छगतं नक्षत्रत्रयं श्रेष्ठं शुभफलदमिति । अनेनापि प्रकारेण मृगादीनि तान्येव शुभाशुभानि संभवति । तत्र हलचक्राकृतिर्लिख्यते । कश्यपोऽपि — 'त्रिप्वष्टसु नवर्क्षेषु सप्तस्वर्कविमुक्तभात् । हानिर्वृद्धिः कर्तृमृत्युर्लक्ष्मीश्चैव यथाक्रमम् ॥' इति हलनक्षत्रोक्त्यनन्तरमुक्तवान् । अस्यायमर्थः - अर्कविमुक्तभात् त्रिषु भेषु हानिः । ततोऽष्टसु भेषु वृद्धिः । ततो नवसु भेषु कर्तुर्नाशः । ततः सप्तसु भेषु लक्ष्मीप्राप्तिरिति यथाक्रमं फलं ज्ञेयम् । अत्र सप्तविंशतिनक्षत्रोक्तेरभिजिद्गुणना नास्ति । एवं बहुमुनिसंवादे सति 'इनप्रोज्झितत्रिवह्नित्रीपुत्री पुत्रिरामाण्य३ | ३ | ३|५|३|५|३ | ३शुभशुभदानि क्रमाल्लांगलाख्ये' इति यदुक्तं केशवदेवशैर्मुहर्ततत्त्वे तञ्चित्यम् । ऋषिवाक्यमूलाभावात् । ननु 'अर्काक्रांतगतागतान्यनडुहां नाशाय भान्यग्रतो वृद्ध्यै भन्त्रितयं ततश्च कृषि७ मु० चि०
७३