________________
मुहूर्तचिंतामणिः । [बीजवापमुहूर्तः .. अथ बीजोतिमुहूर्तफणिचक्रहलचक्राणि शार्दूलविक्रीडितेनाहएतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना
बीजोतिर्गदिता शुभा त्वगुभतोऽष्टानींदुरामेंदवः । रामेंद्वग्नियुगान्यसच्छुभकराण्युप्तौ हलेकोज्झिता
द्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत्संति च ॥२९॥ एतेष्विति ॥ श्रुतिः-श्रवणः, वारुणं शततारका, अदितिः-पुनर्वसुः, विशाखा-प्रसिद्धा; एतैरुडुभिर्नक्षत्रैर्विना न्यूनेष्वेतेषु पूर्वोक्तनक्षत्रेषु मूलमघाध्रुवमृदुक्षिप्रधनिष्ठास्वातीषु पंचदशनक्षत्रेषु बीजोप्तिर्बीजवापनं शुभम् । उक्तं च रत्नमालायाम्—'हस्ताश्विपुष्योत्तररोहिणीषु चित्रानुराधामृगरेवतीषु । स्वातौ धनिष्ठासु मघासु मूले बीजोप्तिरुत्कृष्टफला प्रदिष्टा ॥' इति । वसिष्ठेनाप्येतावंत्येव नक्षत्राण्युक्तानि-धातृद्वये कौणपपित्र्यपुष्ये हस्तत्रये त्र्युत्तरमैत्रभेषु । पौष्णे धनिष्ठास्वथ वाश्विनीषु बीजोतिरुत्कृष्टफलप्रदा स्यात् ॥' इति । कौणपः मूलम् । नारदेनाप्युक्तानि-मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु । समूलभेषु बीजोतिरत्युत्कृष्टफलप्रदा ॥' इति । कश्यपेनापि-'वसुवायुजनैर्ऋत्यक्षिप्रध्रुवमृदूडुषु । सीतां स्मृत्वाथ बीजोतिरत्युत्कृष्टफलप्रदा ॥' इति । अत्र मघा नोक्ता । अथ भौमो मंगलवारो निषिद्धः । अर्थात् सूर्यचंद्रबुधगुरुशुक्रशनीनां वारेषु बीजोप्तिः शुभा । अत्र विनायोगे द्वितीया । 'एप्रूंद्रश्रुतिवारुणेषु च कुजे बीजोप्ति'रिति व्यवहारतत्त्वे उक्तत्वात् । 'नेष्टा कृषिः' इत्यतो नकारोऽत्रानुवर्तते, तेन बीजोप्तिर्नेष्टेत्यर्थः । अत्र कालविशेषनिषेधो राजमातेडे-रवी रौद्राद्यपादस्थे भूमेः संजायते रजः। तस्मादिनत्रयं तत्र बीजवापे परित्यजेत् ॥' इति ॥ अथ बीजोप्तौ फणिचक्रमुच्यते । अगुभतो न विद्यते गावः किरणा यस्यासावगुः, यस्य स्वरूपाभावः तस्य कुतस्तरां किरणाः, तादृशोऽगू राहुस्तस्य भं नक्षत्रं तस्मादित्यर्थः । राधिष्ठितनक्षत्रादष्टौ भानि असंत्यसमीचीनानि । ततस्त्रीणि शुभानि । तत एकमशुभम् । ततः स्त्रीणि शुभानि । ततोऽप्येकमशुभम् । ततस्त्रीणि शुभानि । ततोऽप्येकमशुभम् । ततस्त्रीणि शुभानि । ततश्चत्वार्यशुभानि । एवं बीजोप्तौ सप्तविंशतिनक्षत्राणां शुभाशुभत्वमुक्तम् । उक्तं च नारदेन- भवेद्भत्रितयं मूर्ध्नि धान्यनाशाय राहुभात् । गले त्रयं कजलाय वृद्ध्यै द्वादश चोदरे ॥ निस्तंडुलत्वं लांगूले भचतुष्टयमीरितम् । नाशो बहिःपंचके स्थाबीजोप्ताविति चिंतयेत् ॥' इति । राहुर्यस्मिन्नृक्षेऽस्ति तस्मान्नक्षत्रत्रयं मूर्ध्नि मस्तके स्थाप्यं धान्यनाशकरं भवति। ततस्त्रयं गले स्थाप्यं, कजलाय श्यामिकासंपादकं स्यात् । ततो द्वादशभानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि, तानि धान्यवृद्धये स्युः। ततो नक्षत्रचतुष्टयं पुच्छे निस्तंदुलत्वकरं स्यात् । ततोऽवशिष्टं बहिर्नक्षत्रपंचकं धान्यनाशकरं स्यात् । रत्नमालायामपि-'मूर्ध्नि त्रीणि गले त्रयं च जठरे धिष्ण्यानि च द्वादश स्यात्पुच्छे च चतुष्टयं बहिरतो भानां स्थितं पंचकम् । श्वेडं