________________
हलप्रवहणमुहूर्तः] नक्षत्रप्रकरणम् २। मिति निष्कृष्टोऽर्थः । 'हस्तेऽर्कवारे संक्रांती यदृणं स्यात्कुलेषु तत् । वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेत् ॥' इति ज्योति प्रकाशकारोक्तेः । अथ बुधे बुधवारे कदाचिदप्य॒णं न देयम् । 'न देयं बुधवासरे' इत्यधुनैचोक्तत्वात् ॥ २७ ॥ अथ हलप्रवहणमुहूर्त शार्दूलविक्रीडितेनाह
मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनाकं शनिं ___ पापीनबलैर्विधौ जलगृहे शुक्रे विधौ मांसले । लग्ने देवगुरौ हलप्रवहणं शस्तं न सिंहे घटे
कर्काजैणधटे तनौ क्षयकरं रिक्तासु षष्ठयां तथा ॥२८॥ मूलेति ॥ मूलविशाखामघाभिः चरध्रुवमृदुक्षिप्रैश्च एकोनविंशतिनक्षत्रैहलप्रवहणं हलप्रवृत्तिं कुर्यात् । यदाह नारदः-'मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च । हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः ॥' इति । विशेषमाह श्रीपतिः-'मृदुध्रुवक्षिप्रचरेषु मूले मघाविशाखासहितेषु भेषु । हलप्रवाह प्रथमं विदध्यान्नीरोगमुष्कान्वितसौरभेयैः ॥' इति । नीरोगाः पीडारहिता ये मुष्का वृषणास्तैरन्विता ये सौरभेया वृषास्तैर्विदध्यादित्यर्थः । युक्तं चैतत् । वृषाणां वृषणास्तु फलरूपा अतस्तादृशैर्वृषैः कृतं कर्षणं सफलं स्यात् । चूर्णितवृषणैर्वृषैः कृतं कर्षणं निष्फलमेव भवति । तथाऽर्क सूर्यवारं शनिवारं विना त्यक्त्वाऽन्यवारेषु चंद्रमंगलबुधबृहस्पतिशुक्रवारेषु हलप्रवहणं शुभम् । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्' इति विनायोगे द्वितीया । उक्तं च व्यवहारतत्त्वे-'पूर्वाद्वीशयमाग्निभेऽर्कयमयो रिक्तासु नेष्टा कृषिः' इति ॥ अथ सामान्यतो लग्नशुद्धिः। तत्र पापग्रहै नबलैर्निर्बलैरुपलक्षिते लग्ने विधौ चंद्रे शुक्रे मांसले बलिनि पुष्टे उदित इत्यर्थः । तत्र विधौ चंद्रे जलगृहे जलराशिस्थे सति देवगुरौ लग्नस्थे च सति हलप्रवहणं शुभम् । उक्तं च रत्नमालायाम्—'शक्तिशालिनि सितेऽथ शीतगौ दुर्बलैरसितभौमभास्करैः । आश्रिते शशिनि वारिजोदयं लग्नवर्तिनि गुरौ कृषिक्रिया ॥' इति । कश्यपोऽपि—'गुरौ लग्नगते शुक्रे बलिन्याप्योदये विधौ । शस्ता कृषिक्रिया तत्र दुर्बलैः क्रूरखेचरैः ॥' इति । अथ विशेषतो लग्नशुद्धिः । तत्र सिंहे, घटेकुंभे, कर्के, अजेमेषे, एणे-मकरे, धटे-तुलायां; एषु लग्नेषु कृषिकर्म न शस्तम् । इतस्तत्क्षयकरं पीडाकरम् । तथा रिक्तासु-चतुर्थीनवमीचतुर्दशीषु, षष्ठ्यां च, क्षयकरम् । तथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि न शस्तं कृषिकर्म । उक्तं च ज्योतिःसारसागरे-'मेषलग्ने पशून् हंति कर्कटे जलजं भयम् । सिंहे सस्यभयं ज्ञेयं तुलायां हलसंक्षयः ॥ मकरे सस्यनाशः स्यात्कुंभे चौरभयं तथा । हत्यष्टमी बलीवर्दान्नवमी सस्यघातिनी ॥ षष्ठी च कीटजननी पशून्हन्ति चतुर्दशी ॥' इति । चतुर्थ्यामपीदमेव फलं ध्येयम् ॥ २८॥
१ अत्र ‘विंशतिनक्षत्राणि' इति पाठो युक्त इति प्रतीयते ।