________________
मुहूर्तचिंतामणिः। [ऋणग्रहणमुहूर्तः अर्के सूर्ये वा अथवा कुजे=भौमे, खलाभे=दशमैकादशस्थे सति, सेवकेन भृत्येन स्वामिनो राजादेः सेवा कार्या । राजादिदर्शनं प्रागुक्तम् । वेतनग्रहणकार्याचंगीकाररूपा तु सेवाऽस्मिन्मुहूर्ते कार्या । तत्रापि स्वामिसेवकयोर्योनिमैत्र्यां सत्यां, च पुनः राशिपोः स्वामिसेवकयोयौँ जन्मराशी तयोर्यावधिपती तयोरपि मैत्र्यां प्रीतौ सत्यां कार्या । उक्तं च श्रीपतिना-शुभे विलग्ने दशमायगे च रवी कुजे वाऽथ वशेन योनेः । विद्यायुधाभ्यासरतेन कार्यः समाश्रयः स्वामिनि सेवकेन ॥' इति । कश्यपोऽपि-'दशमैकादशे सूर्ये कुजे वा शुभलग्नगे । विद्यायुधाभ्यासयुक्तसेवाकर्मापि सिद्ध्यति ॥' इति । राशिमैत्रीसाहित्यं तु 'बभ्ररगं श्वैणमिभेद्रसिंहमोत्वाखुसंज्ञं त्वजवानरं च । गोव्याघ्रमश्वोत्तममाहिषं च वैरं नृनार्योर्नुपभृत्ययोश्च ॥' इति वसिष्ठोक्तिमंगीकृत्य तुल्यन्यायत्वादत्राप्युक्तं ग्रंथकृता । योनिमैत्री राशिमैत्री च विवाहप्रकरणे (लो० २५) 'अश्विन्यंबुपयो रिति, 'मित्राणि घुमणेः' (६।२७) इति च वक्ष्यति ॥ २६ ॥ • अथ द्रव्यप्रयोगऋणग्रहणमुहूतौं शार्दूलविक्रीडितेनाहखात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरे
लग्ने धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः। - नारे ग्राह्यमणं तु संक्रमदिने वृद्धौ करेऽह्नि यत् .. तद्वंशेषु भवेदृणं न च बुधे देयं कदाचिद्धनम् ॥२७॥
खात्यादित्येति ॥ स्वातीपुनर्वसुचित्रानुराधामृगरेवतीविशाखापुष्यश्रवणधनिष्ठाशततारकाश्विनीष्वेकादशनक्षत्रेषु द्रव्यप्रयोगः शुभः द्रव्यं परस्मै ऋणत्वेन देयम् । यदाह भीमपराक्रमः-'मृदुपुष्याश्विनी चैव विशाखा श्रवणत्रयम् । पुनर्वसौ च शंसंति धनादिनिधिवर्तनम् ॥' इति । वर्तनं ऋणादिरूपेण दानं, मिश्रनक्षत्रत्वाद्विशाखानिषेधे प्राप्त ऋणदाने च न निषेध इति विशेषः । हृतनष्टादौ तु निषिद्धव । अथ लग्ने चरे-मेषकर्कतुलामकराणामन्यतमे, धर्मः=नवमं, सुतः=पंचमं, अष्टशब्देन लक्षणयाष्टमस्थानमुच्यते; तेषां शुद्धिः नवमपंचमस्थानयोः शुभग्रहसत्त्वं पापग्रहराहित्यं च, अष्टमे तूभयराहित्यमित्यर्थः । एवंरूपया शुद्ध्या सहिते लग्ने ऋणं देयम् । उक्तं च रत्नमालायाम्-'शुद्धेषु धर्मात्मजनैधनेषु चरे विलग्ने द्रविणप्रयोगः।' इति । अथ आरे मंगलवारे ऋणं न ग्राह्यम् । तदुक्तं ज्योतिःप्रकाशे-'ऋणं भौमे न गृह्णीयान देयं बुधवासरे । ऋणच्छेदं कुजे कुर्यात्संचयं सोमनन्दने ॥' इति । अथ तुर्विशेषे । संक्रमः संक्रांतिः तदिवसे, वृद्धौ वृद्धियोगे, करेऽऽह्नि =हस्तनक्षत्रसहिते रविवारे हस्तार्के इति यावत् , तत्रापि ऋणं न ग्राह्यमिति प्रत्येकं संबंधः । ननु कुतो न ग्राह्यमित्यत आह-यदिति । यद्यस्माद्धेतोस्तदृणं तद्वंशेषु ऋणग्रहीतृकुलेषु भवेत् । तदृणं तत्पुत्रपौत्रादिभिरपि परिहर्तुमशक्यमित्यर्थः । अर्थादेषु भौमसंक्रांत्यादिदिनेषु ऋणमवश्यं परिहर्तव्य
१ मूले द्वादश नक्षत्रगणनादर्शनादत्र 'द्वादशनक्षत्रेषु' इति पाठ उचित इति भाति; स चादर्शेष्वदर्शनान्नादृतः । स्वातिन्यूनो हि भीमपराक्रमपाठ एकादशसंख्यानुगुणः ।