________________
स्वामिसेवा मुहूर्तः ]
नक्षत्रप्रकरणम् २ ।
पित्र्येंदुभिः शस्तेऽर्के शुभवारयोगतिथिषु क्रूरेष्ववीर्येषु च । पुष्ठेदौ जलराशिगे दशमगे शुक्रे शुभांशोदये प्रारंभः सलिलाशयस्य शुभदो जीवेंदुपुत्रोदये ॥ इति । स्वं=धनिष्टा । ग्रंथेषु तु वापीकूपतडागानामाकृतिभेदात्प्रत्येकं भिन्नानि नक्षत्राण्युक्तानि । तत्र वापीखननमाह ऋक्षोच्चयः - 'स्वात्यश्विपुष्यहस्तेषु सर्वदा च पुनर्वसौ । रेवत्यां वारुणे चैव वापीकर्म प्रशस्यते ॥' इति ॥ कूपारंभमाह श्रीपतिः - 'हस्तः पुष्यो वासवं वारुणं च मैत्रं पित्र्यं त्रीणि चैवोत्तराणि । प्राजापत्यं चापि नक्षत्रमाहुः कूपारंभे श्रेष्ठमाद्या मुनींद्राः ॥ इति ॥ तडागारंभमाह वसिष्ठः - 'मैत्रेदुपौष्णोत्तररोहिणीषु देवेज्यवारीश्वरवारिभेषु । प्रारंभणं सर्वजलाशयानां कार्यं सितेंद्वंशकवारलग्ने ॥' इति । अत्र वापीकूपनक्षत्राणां पार्थक्येनाभिधानात् तडागारम्भार्थमिदं वचनमवसीयते । बहुवचनमाश्रयाभिप्रायेण । सर्वशब्दोपादानं छंदः परिपूरणार्थम् । तत्र कूपतडागनक्षत्रेषु सदृशनक्षत्रत्यागादवशिष्टानां मेलने त्रयोदश नक्षत्राणि भवंति । तत्र संक्षेप्तुकामेन व्यवहारतत्त्वकत्र सर्वजलाशयानामारंभे सामान्यतो जलाश्रयत्वसाधर्म्यादेतानि त्रयोदश भान्युक्तानि तान्येव च ग्रंथकर्त्रीक्तानि । तत्र वापीकूपतडागानां भेदो लोकप्रसिद्ध एव । यत्तु पुनर्वसिष्ठेनोक्तम्- 'शशांकतोयेशकरार्यमित्रध्रुवांबुपित्र्ये वसुरेवतीषु । उद्यानवाप्याद्वितडागकूपकार्याणि सिध्यंति जलं ध्रुवं स्यात् ॥ इति, तज्जीर्णोद्धारविषयम् । प्रागुक्तवाक्यं प्रारंभणपदोपादानान्नूतनखननविषयमिति पुनरुक्तिपरिहारः ॥ अथ नृत्यारंभः । तैः प्रागुक्तैर्नक्षत्रैः, व्यंभोमधैः = पूर्वाषाढामधारहितैः, सेंद्रभैः=ज्येष्ठासहितैः मित्रार्कध्रुववासर्वांबुपांत्यपुष्येंदुज्येष्ठानक्षत्रैः नृत्यं शुभम्, नृत्यारंभः शुभ इत्यर्थः । नृत्यं = नर्तनम् । यदाह वसिष्ठः - ' तित्रोत्तरामित्रगुरुश्रविष्टाहस्तेन्द्रवारीश्वरपौष्णभेषु । संगीतनृत्यादिसमस्त कर्म कार्यं विभौमार्कजवासरेषु ॥' इति । श्रीपतिरपि - 'हस्तः पुण्यो वासवं चानुराधा ज्येष्ठा पौष्णं वारुणं चोत्तराश्च । पूर्वाचार्यैः कीर्तितश्चंद्रवर्ती नृत्यारंभे शोभनोऽयं भवर्गः ॥' इति । अथ लग्नशुद्धिः । तत्र हिबुके=लग्नाच्चतुर्थस्थाने, स्थितैः शुभग्रहैर्वीक्षिते इत्यध्याहारः । कश्यपवाक्यानुरोधात् । तनुगृहे=लग्ने, बुधसहि सति, अब्जे=चंद्रे, ज्ञराशौ = मिथुनकन्यास्थे चतुर्थस्यैः शुभग्रहैर्वीक्षिते सति नृत्यारंभः शस्तः । यदाह कश्यपः - 'लग्नसंस्थे बुधे चंद्रे बुधराशौ तु वीक्षिते । शुभग्रहैश्चतुर्थस्थैर्नाक्यारंभः प्रशस्यते ॥' इति । अत एव रत्नमालायामपि - 'बुधे विलग्ने शशिनि ज्ञराशौ शुभवीक्षिते । हिब्रुकस्थैः शुभैर्नाट्यप्रारंभः सद्भिरिव्यते ॥' इति । अत्र पद्य एवमेव व्याख्येयम् ॥ २५ ॥
६९
अथ सेवकस्य स्वामिसेवायां मुहूर्त शालिन्याह
क्षि मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे वा खलाभे । योने मैत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्या स्वामिनः सेवकेन २६
क्षिप्रे मैत्र इति ॥ क्षिप्रे मैत्रे - अश्विनीपुष्यहस्तचित्रानुराधामृग रेवतीनक्षत्रेषु, वित्सितार्केज्यवारे=बुधशुक्रसूर्यगुरुवारे, तथा सौम्यग्रहे लग्नसंस्थे सति