________________
६८
मुहूर्तचिंतामणिः। [जलाशयखननमुहूर्तः अथ धनप्रयोगे निषिद्धनक्षत्राण्यनुष्टुभाहतीक्ष्णमिश्रध्रुवोग्रैर्यद्रव्यं दत्तं निवेशितम् ।। प्रयुक्तं च विनष्टं च विष्ट्यां पाते च नाप्यते ॥ २४ ॥ तीक्ष्णेति ॥ तीक्ष्णमिश्रध्रुवोग्रसंज्ञकैर्नक्षत्रैर्यद्व्यं सुवर्णादि दत्तं कलांतरं विनैव दत्तं न तु स्वसत्तापरित्यागेन तद्दत्तमित्युच्यते । निवेशितं स्वेष्टसमीपे प्रत्ययार्थं स्थापितं, प्रयुक्तं कलांतररीतिपुरःसरोत्तमर्णाधमर्णव्यवहारेण कस्मैचिद्दत्तं, विनष्टं चौरादिना हृतं स्वयमेव वा क्वचित्त्यक्तं, तद् द्रव्यं निश्चयेन कदाचिदपि नाप्यते । तथा विष्ट्यां भद्रायां पाते व्यतीपाते महापाते वा हृतं द्रव्यं न प्राप्यते । चकारागृहणेऽपि न देयमिति व्याख्येयं, वसिष्ठवाक्यस्वरसात् । उक्तं च वसिष्ठेन-'ध्रुवोनसाधारणदारुणः निक्षिप्तमर्थ त्वथवा प्रनष्टम् । चौरैह॒तं दत्तमुपप्लवे वा विष्ट्यां च पाते च न लभ्यते तत् ॥' इति । उपप्लवे ग्रहणे । यत्तु केचिद्वयाकुर्वते-निश्चयेन चौरहृतस्य द्रव्यस्य प्राप्त्यप्राप्तिविचारोंऽधकादिनक्षत्रैरेव वा 'लाभोंऽधके निकट एव हृतस्य चौरैः' इत्युक्तत्वात् । चौरनिर्णये त्वनेनैव विचारः । तच्चिंत्यम् । वसिष्ठवाक्येऽपि 'चौरैर्हत मिति साक्षाच्चौरपदोपादानाद्येनकेनापि विचारः, कर्तव्य इति युक्तमुत्पश्यामः । एवं, चौरनिर्णयेऽपि स्वेच्छया विचारः तत्रोभयैक्ये प्राप्त्यप्राप्तिनिश्चय एव, उभयैक्याभावे तु प्रयत्नेनेति ॥ २४ ॥
अथ जलाशयखनननृत्यारंभयोर्मुहूर्त शार्दूलविक्रीडितेनाहमित्रार्कध्रुववासवांबुपमघातोयांत्यपुष्येंदुभिः
पापै_नबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ । आप्ये सर्वजलाशयस्य खननं व्यंभोमधैः सेंद्रभै
स्तैर्नृत्यं हिबुके शुभैस्तनुगृहे शेऽब्जे ज्ञराशौ शुभम् ॥२५॥ मित्रार्केति ॥ मित्रः अनुराधा, अर्क: हस्तः, ध्रुवं रोहिण्युत्तरात्रयं, वासवं धनिष्ठा, अंबुपः शततारका, तोयं-पूर्वाषाढा, अंत्यं रेवती, पुष्यः, इंदुः= मृगः; एतैर्नक्षत्रैस्त्रयोदशभिः सर्वेषां जलाशयानां वापीकूपतडागनाम्नां तोयाधाराणां खननं शुभमुक्तम् । उक्तं च व्यवहारतत्त्वे-'आप्यांबुपांत्यपितृमित्रवसूत्तरार्ककेंद्विज्यभेषु खननं सलिलाश्रयाणाम्' इति ॥ अथ जलाशयखनने लग्नविचारः ।पापैः पापग्रहैबलरहितैः सद्भिः, तनौ लग्ने, सुरगुरौ बृहस्पती, ज्ञे बुधे स्थिते सतीत्यर्थः । लग्नात् खे-दशमस्थाने, भृगौ-शुक्र सति, आप्ये= जलचरराशौ विधौ सति, जलाशयखननं हितम् । उक्तं च रत्नमालायाम्'लग्ने जीवे शेऽथवा दुर्बलैश्च क्रूरैः शुक्रे चापि मेषूरणस्थे । आप्ये चंद्रे सर्वतोयाश्रयाणामारंभाः स्युः सिद्धये निर्विकल्पम् ॥' इति । कश्यपेनाप्युक्तम्-'गुरौ ज्ञे वा लग्नगते शुक्रे कर्मगते विधौ । आप्यभे जलकार्याणामारंभः सिद्धिदः स्मृतः ॥' इति । दीपिकायां तु विशेषः-'पुष्ये मित्रकरोत्तरस्ववरुणब्रह्मांबु