________________
६७
अंधादिनक्षत्रेषु नष्टवस्तुफलं ] नक्षत्रप्रकरणम् २।।
अथांधकादिनक्षत्राणि शार्दूलविक्रीडितेनाहअंधाक्षं वसुपुष्यधातृजलभद्वीशांत्यभार्यम्णभं
मंदाक्षं रविविश्वमैत्रजलपाश्लेषाश्विचांद्रं भवेत् । मध्याक्षं शिवपित्रजैकचरणत्वा द्रविध्यंतकं
स्वक्षं स्वात्यदितिश्रवोदहनभाहिर्बुध्यरक्षोभगम् ॥ २२ ॥
अंधाक्षमिति ॥ अंधाक्षमिति जात्यभिप्रायेणैकवचनम् । एवं मंदाक्षमित्यादावपि । वसुः धनिष्ठा, पुष्यः, धाता-रोहिणी, जलभं-पूर्वाषाढा, द्वीशं= विशाखा, अंत्यभं=रेवती, आर्यम्णभम् उत्तराफल्गुनी; एतान्यंधनक्षत्राणि । अथ रविः हस्तः,विश्वे-उत्तराषाढा,मैत्रं अनुराधा,जलपं-शततारका,आश्लेषा, अश्विनी,चांद्रं-मृगः; एतानि मंदाक्षनक्षत्राणि । अथ शिवः=आ,पितरः मघा, अजैकचरण:=पूर्वाभाद्रपदा, त्वाष्ट्र-चित्रा, ऐंद्रज्येष्ठा, विधिः अभिजित् , अंतकं भरणी; एतानि मध्याक्षनक्षत्राणि । अथ स्वाती, अदितिः पुनर्वसुः, श्रवः श्रवणः, दहनभं-कृत्तिका, अहिर्बुध्य-उत्तराभाद्रपदा, रक्षः मूलं, भगं पूर्वाफल्गुनी; एतानि सुलोचननक्षत्राणि । यदाह वसिष्ठः-'अंधकमथ मंदाक्षं मध्यमसंज्ञं सुलोचनं पश्चात् । पर्यायेण च गणयेच्चतुर्विधं ब्रह्मधिष्ण्यातः॥' इति । धिष्ण्याशब्दः स्त्रीलिंगे आर्षः । ब्रह्मधिष्ण्या रोहिणी । ततश्चतुर्धा पुनःपुनः उक्तान्येव नक्षत्राणि भवंति । ननु लाघवार्थ ग्रंथकृत् प्रवृत्तः, अतो वसिष्ठवचनवल्लघुपद्येनैव तदर्थसिद्धेः प्रत्येकं नक्षत्रगणनारूपं गौरवं व्यर्थ कृतमिति चेन्न । यद्यपि तत्र शब्दलाघवमस्ति तथापि पुनःपुनर्गणनया प्रमादादन्यथापि गणनया मंदाक्षादिनक्षत्राणां विपर्याससिद्धौ गौरवमर्थतोऽस्त्येव । प्रस्तुते यद्यपि शब्दबाहुल्यं तथाप्यर्थस्य निःसंदेहोपनिबंधादतीव लाघवमस्तीत्यस्मिन्पाठे महान् गुणः ॥ २२ ॥ अथांधादिनक्षत्राणां फलान्यनुष्टुप्छंदसाह
विनष्टार्थस्य लाभोंऽधे शीघ्रं मंदे प्रयत्नतः ।
स्थादूरे श्रवणं मध्ये श्रुत्याप्ती न सुलोचने ॥ २३ ॥ विनष्टार्थस्येति ॥ अंधनक्षत्रेषु विनष्टस्यापहृतस्यार्थस्य शीघ्र लाभः प्राप्तिभवति । मंदाक्षनक्षत्रेषु विनष्टार्थस्य प्रयत्नतो लाभो भवति । मध्ये मध्याक्षनक्षत्रेषु विनष्टार्थस्य दूरे स्वनगरादतीव दूरे भूभागे श्रवणं त्वदीयं द्रव्यममुकेन हृतममुकस्मिन् स्थले तिष्ठति' इति लोकश्रुतिर्भवति, लब्धिस्तु नास्त्येव । सुलोचननक्षत्रेपु श्रुत्याप्ती न, श्रवणमपि न लब्धिरपि नेत्यर्थः । उक्तं च रत्नमालायाम्-'लाभोंऽधके निकट एव हृतस्य चौरैर्द्रव्यस्य लब्धिरिह केकरभे प्रयत्नात् । दूरश्रुतिश्चिपिटभेषु कथंचिदेव न प्राप्तिरुत्तमविलोचनभे कदाचित् ॥' इति । केकरभे मंदाक्षनक्षत्रे । चिपिटभे-मध्यनक्षत्रे ॥ २३ ॥