________________
दद
मुहूर्तचिंतामणिः। [खगादिधारणमुहूर्ताः 'मृदुध्रुवक्षिप्रचरेषु भेषु योगे प्रशस्ते शनिचंद्रवज्ये । वारे तिथौ पूर्णजयाख्ययोश्च मुद्राप्रतिष्ठा शुभदा नराणाम् ॥ गुर्वस्ते वा सितास्ते वा मुद्राया घट्टनं क्वचित् । क्रूरग्रहाशलग्ने न कार्य भूतिमिच्छता ॥' इति । अथ वसुधनिष्ठा, हयः अश्विनी, दिनकृत्पंचकं हस्तचित्रास्वातीविशाखानुराधाः, आदित्यं-पुनवसुः, पुष्यः; एषु नक्षत्रेषु वस्त्राणांक्षालनं स्वतः शक्तौ स्वयं क्षालनं कार्य, नो चेद्रजकाय धावनार्थ देयमित्यर्थः। नो रिक्तेति । रिक्ताः प्रसिद्धाः, पर्वाणि प्राङ्मयोक्तानि, षष्ठी, पितृदिन अमावास्या, रविजज्ञेषु-शनैश्चरबुधदिवसेषु, कदापि वस्त्रधावनं नो कार्य । उक्तं च केशवदैवज्ञैः-'पोष्णादित्यादिपंचाश्विवसुषु च भवेद्वाससां क्षालनाद्यं हित्वा षष्ठीं च पर्वाजसुतशनिदिनं श्राद्धघस्रं शुभं स्यात् ॥' इति । अदितिः पुनर्वसुः, आदिः आदित्यः । क्वचिद्भौमशनिवारौ संक्रांत्यादिकं निंद्यम् । यदाह चंडेश्वरः-शनौ भूमिसुते श्राद्ध षध्यमावास्ययोस्तथा । वस्त्रक्षालनजो दोषो दहत्यासप्तमं कुलम् ॥ संक्रांत्यां पंचदश्यां च द्वादश्यां च स्वेर्दिने । वस्त्रं निष्पीडयेनैव क्षारेणापि न योजयेत् ॥' इति ॥२०॥
अथ खगादिधारणं शय्याधुपभोगं च स्रग्धरयाहसंधार्याः कुंतवर्मेष्वसनशरकृपाणासिपुग्यो विरिक्ते ___ शुक्रेज्यार्केऽह्नि मैत्रध्रुवलघुसहितादित्यशाक्रद्विदैवे । स्युर्लग्ने हि स्थिराख्ये शशिनि च शुभदृष्टे शुभैः केंद्रगैः स्या
भोगः शय्यासनादेर्बुवमृदुलघुहर्यतकादित्य इष्टः ॥ २१॥ संधार्या इति॥ विरिक्ते रिक्तावर्जिते शुक्रबृहस्पतिरविवारे तथा मैत्रध्रुवलघुसंज्ञभसहितपुनर्वसुज्येष्ठाविशाखानक्षत्रेषु कुंतादयो धार्याः । कुंतःप्रासः, 'प्रासस्तु कुंतः स्यात्' इत्यमरः । वर्म-कवचं, इषवः बाणाः अस्यंते क्षिप्यन्तेऽनेनेति इष्वसनं-धनुः, शरः बाणः, कृपाण: खगः, असिपुत्री-छुरिका । सन्नाहोऽपीति केचित् ; तथा स्थिराख्ये-वृषसिंहवृश्चिककुंभानामन्यतमे राशी, लग्ने स्थिते सति शशिनि च समीचीनस्थानस्थिते शुभदृष्टे शुभग्रहैः केंद्रगैः सद्भिः कुंतादयो धार्याः स्युः । तदुक्तं व्यवहारोच्चये—'पुष्ये चादितिचित्रपद्मतनये शक्रोत्तरारेवतीवाजीहस्तविशाखमित्रसहिते भानौ गुरौ भार्गवे । कुंभे कीटगृहे वृषे मृगपती चंद्रे शुभैःक्षिते सन्नाहः शरखड्गकुंतछुरिका धार्या नृपाणां हिताः ॥' इति ॥ अथ ध्रुवमृदुलघुनक्षत्रेषु हरौ श्रवणे अंतके भरण्यां आदित्ये पुनर्वसावेषु शय्यासनादेः शय्या खट्दादिरूपा आसनमौर्णपीठमृगत्वगादि आदिशब्दात्पादुकाः एषामुपभोग इष्टो हितः । उक्तं च दीपिकायाम्-'मैलेंदुपुष्ययमभादितिवाजिचित्राहस्तोत्तरात्रयहरीज्यविधातृभानि । एतेष्वतीव शयनासनपादुकानां संभोगकार्यमुदितं मुनिभिः शुभाहे ॥' इति । शुभाहे-शुभग्रहवारे ॥ २१॥