________________
मुद्रापातनादिमुहूर्ताः] नक्षत्रप्रकरणम् २ ।
६५
स्वातिपुष्याश्विनीहस्तरोहिण्युत्तरात्रितयेषु भेषु भूषाघटनं आभरणघटनं शुभं स्यात् । यदाह वसिष्ठः-'क्षिप्रचलाचलऋक्षे रिक्तामावर्जितेषु दिवसेषु । निखिलेपु वासरेप्वपि त्रिपुष्करे भूषणं कार्यम् ॥' इति । अथ तद्भूषाघटनं रत्नयुतं माणिक्यहीरकादिरत्नयुतं चेच्चिकीर्षितं तदा तीक्ष्णोगविहीनभे मूलज्येष्ठाझैश्लेषापूर्वावयभरणीमघास्त्यक्त्वाऽन्येष्वष्टादशनक्षत्रेषु कार्यम् । तथा रविभौमवारे कार्यम् । तथा मेषालिसिंहे मेषवृश्चिकसिंहलग्ने कार्यम् । तदुक्तं वसिष्ठेन'स्थिरसाधारणचरभे लघुमैत्रेष्वर्ककुजवारे । तेषामेव विलग्ने माणिक्यमयं विभूषणं कार्यम् ॥' इति ॥ माणिक्यग्रहणमुपलक्षणं रत्नादेः । अथ चरध्रुवमृदुक्षिप्रसंज्ञकेपु नक्षत्रेषु तद्भूषणघटनं मुक्तासहितं शुभं भवति । मुक्ताफलग्रहणं श्वैत्यात् रजतादेरुपलक्षणम् । अत्र चंद्रशुक्रयोर्वारे कर्कवृषतुलालग्नेषु कार्यमित्यपि विशेषो ध्येयः । तदुक्तं वसिष्टेन-'क्षिप्रमृदुध्रुवचरभे शशिसितयोर्वासरेषु तल्लग्ने । मुक्ताफलरजतमयं भूषणमखिलं सवज्रकं कार्यम् ॥' इति । केचिदिदं निष्पन्नमेवाभरणमस्मिन्नेव मुहूर्तेधार्यमित्याहुः । अथ तीक्ष्णानि चत्वारि भानि, उग्राणि पंच भानि, अश्विनी मृगः द्विदैवं विशाखा दहनः कृत्तिका; एपु नक्षत्रेषु घट्टितं शस्त्रं शुभं स्यात् । 'घट्ट चलने' संयोगांतचुरादिर्धातस्ततः स्वार्थण्यतान्निष्टाक्तः । 'आर्धधातुकस्येवलादेः' इतीद । 'निष्टायां सेटि' इति णिलोपः । उक्तं च ज्योतिःसागरे-'कृत्तिकासु विशाखासु भौमार्कशनिवासरे । तद्दिने घट्टितं शस्त्रं नृपाणां जयदायकम् ॥' इति । दीपिकायाम्-'मूलेंदुपूर्वात्रययाम्यपित्र्यशक्राश्विसनलशूलिनश्च । खड्गादिसाधारणकर्म कुर्यात्तिथौ विलग्ने च शुभे शुभाहे ॥' इति । साधारणं= घट्टनोजवलीकरणादिकम् । अथ सुवर्णरूप्यादिभाजने भोजनमुहूर्तोऽपि प्रसंगादुच्यते । तत्र वसिष्टः–'लघुमैत्रध्रुवमृदुभे सितेंदुबुधजीवबारेषु । हेमरजतादिभाजनभोजनमारोग्यममृतयोगेषु ॥' इति । आरोग्यं नीरोगत्वं, भोजनकर्तुः स्यादित्यर्थः ॥ १९॥
अथ मुद्रापातनवस्त्रक्षालनमुहूर्त स्रग्धराछंदसाहमुद्राणां पातनं सद्भुवमृदुचरभक्षिप्रभैर्वीन्दुसौरे
घस्रे पूर्णाजयाख्ये न च गुरुभृगुजास्ते विलग्ने शुभैः स्यात् । वस्त्राणां क्षालनं सदसुहयदिनकृत्यूचकादित्यपुष्ये
नो रिक्तापर्वषष्ठीपितृदिनरविजज्ञेषु कार्य कदापि ॥२०॥ मुद्राणामिति ॥ ध्रुवमृदुचरक्षिप्रसंज्ञकैनक्षत्रैः कृत्वा राजमुद्रांकितसुवर्णरूप्यादिनिप्पादनं मुद्रापातनमित्युच्यते । 'टंकसाल' इति यवनभाषयाहुः । तत् सत् शुभमित्यर्थः । तथा वींदुसौरे सोमशनिरहिते दिवसे तथा पूर्णाजयाख्ये पंचमीदशमीपूर्णिमातृतीयाष्टमीत्रयोदश्यः एतत्संज्ञके घस्रे दिवसे एतत्संज्ञितासु तिथिषु शुभम् । तथा गुरुशुक्रास्तयोर्मुद्रापातनं न कार्यम् । तथा विलग्ने शुभैः लग्ने शुभग्रहैः । सद्भिरित्यर्थः । उक्तं च सारसमुच्चये