________________
६४
मुहूर्तचिंतामणिः। [भूषाघटनादिमुहूर्ताः ग्रहः । उक्तं च रत्नमालायाम्-'कुंभराशिमपहाय साधुषु द्रव्यकर्म भवमूर्तिवर्तिषु । अव्ययेष्वशुभदायिषूद्गमे भार्गवे विपणिरिंदुसंयुते ॥' इति ॥१७॥
अथाश्वहस्तिमुहूर्तानिंद्रवज्रयाहक्षिप्रांत्यवखिंदुमरुजलेशादित्येष्वरिक्तारदिने प्रशस्तम् । साद्वाजिकृत्यं त्वथ हस्तिकार्य कुर्यान्मृदुक्षिप्रचरेषु विद्वान् ॥१८॥ ' क्षिप्रांत्येति ॥ क्षिप्रं अश्विनीपुष्यहस्ताः, अंत्यं रेवती, वसुः धनिष्ठा, इंदुः मृगः, मरुत्-स्वाती, जलेशः शततारका, आदित्यं पुनर्वसुः; एषु भेषु वाजिकृत्यमश्वसंबंधि क्रयविक्रयादिकृत्यं कार्यम् । तदुक्तं रत्नमालायाम्-'पुष्यश्रविष्ठाश्विनिसौम्यभेषु पौष्णानिलादित्यकराह्वयेषु । सवारुणःषु बुधैः स्मृतानि सर्वाणि कार्याणि तुरंगमाणाम् ॥' इति ॥ अत्र अश्वचक्रं दैवज्ञमनोहरे"अश्वाकारं लिखेच्चक्रं सामिजिद्भानि विन्यसेत् । स्कंधे च सूर्यभात्पंच पृष्ठे च दश भानि च ॥ पुच्छे द्वे स्थापयेत्प्राज्ञश्चतुष्पादे चतुष्टयम् । उदरे विन्यसेत्पंच मुखे द्वे तुरगस्य च ॥ अर्थलाभो मुखे सम्यग्वाजी नश्यति चोदरे । चरणस्थे रणे भंगः पुच्छे पत्नी विनश्यति ॥ अर्थसिद्धिर्भवेत्पृष्ठे स्कंधे लक्ष्मीपतिभवेत् ॥' इति । इदमश्वारोहणे विचार्य, न ग्रहणे। तथा, अरिक्तारदिने-रिक्ताःचतुर्थीनवमीचतुर्दश्यः । आरः=भौमः, 'आरो वक्रः ऋरदृक् चावनेयः' इति वराहोक्तेः। रिक्ताभौमान् वर्जयित्वाऽन्यदिने वाजिकृत्यं प्रशस्तम् । अत्र सामान्य एव निषेध उपनिबद्धो न विशेषतः॥अथेति । अथ विद्वान् ज्ञाता मृदूनि=चित्रानुराधामृगरेवत्यः, क्षिप्राणि-अश्विनीपुष्यहस्ताः, चराणि-श्रवणधनिष्ठाशततारकापुनर्वसुखात्यः; एषु द्वादशनक्षत्रेषु हस्तिकार्य कुर्यात् । तदाह वसिष्ठः'हस्तत्रये सौम्यहरित्रये च पौष्णद्वये पुष्यपुनर्वसौ च । मैत्रेऽपि सर्वाण्यपि कुंजराणां कर्माणि शस्तान्यखिलानि यानि ॥' इति ॥ अथ हस्तिष्वंकुशार्पणमुहूर्तो व्यवहारोच्चये—'शुभतारे शुभे लग्ने शुभाशे शोभने तिथौ । अंकुशाः करिणां योज्याः शनिलग्ने शनेर्दिने ॥' इति । अथाश्वगजाद्यारोहणमुहूर्तोऽपि तत्रैव-पौष्णाश्विनीवरुणमारुतशीतरश्मिचित्रादितिश्रवणपाणिसुरेज्यवित्तैः । वारेषु जीवशशिसूर्यसितेंदुजानामारोहणं गजतुरंगरथेषु शस्तम् ॥' इति । पाणिः हस्तः, वित्तं धनिष्ठा ॥ १८ ॥ .. अथ भूषाघटनादिमुहूर्त शार्दूलविक्रीडितेनाह___ साद्भूषाघटनं त्रिपुष्करचरक्षिप्रध्रुवे रत्नयुक्
तत्तीक्ष्णोगविहीनभे रविकुजे मेषालिसिंहे तनौ । तन्मुक्तासहितं चरध्रुवमृदुक्षिप्रे शुभे सत्तनौ ।
तीक्ष्णोग्राश्विमृगे द्विदेवदहने शस्त्रं शुभं घट्टितम् ॥१९॥ स्याभूषेति ॥ त्रिपुष्करलक्षणं 'भद्रातिथी रविज-' (श्लो० ४९) इत्यादिना वक्ष्यति । एवंविधे त्रिपुष्करदिवसे चरक्षिप्रध्रुवे श्रवणधनिष्ठाशततारकापुनर्वसु