________________
विक्रयविपणिमुहूर्ताः] नक्षत्रप्रकरणम् २ । विचारः । एवं विक्रेतुरप्यवश्यविक्रेतव्यस्य वस्तुनो यदा ग्रहीता संभवेत्तदैव मुहूर्तमनालोच्य वस्तुदानमावश्यकम् । मुहूर्तविचारतः कालविलम्बे तावद्व्यप्राप्यनुपपत्तेः। तदा तु ऋयिण एव मुहूर्तविचारः । नन्वेवमपि क्रयविक्रयनक्षत्राणां पार्थक्येनाभिधानात्तयोः परस्परगतनिषेधो न युज्यते । तथा राजदर्शनविहितनक्षत्रेभ्योऽन्यनक्षत्रेषु राजदर्शनं निषिद्धमित्यर्थाद्गम्यते । 'सर्व वाक्यं सावधारणं भवतीति न्यायात् । उच्यते,-क्रयनक्षत्रे क्रयः कार्य इत्युक्ते विक्रयस्य स्वतंत्रकर्मत्वात्तत्र क्रया निषेधाभावः । एवं विक्रयङ्केष्वपि क्रयनिषेधाभावः। तत्र निषेधे असत्यन्यनक्षत्राणां मध्यमत्वावगतेः। कदाचित् क्रयनक्षत्राणां मध्यमत्वमंगीकृत्य विक्रयस्य विहितमुहूर्तानुपलब्धौ तत्र मुहूर्तो मध्यमोऽपि ग्राह्यः स्यात्तदर्थमपि वाचनिकस्तन्निषेधः । अतः क्रयविक्रयनक्षवेभ्यो भिन्ननक्षत्रेषु क्रयविक्रययोः मध्यमत्वमनुमिमीमः । निषेधस्य वाचनिकत्वमुक्तं दीपिकायाम्-'यमाहिशक्राग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणेऽतिशस्ताः। पौष्णाश्विचित्राशतविष्णुवाताः शस्ताः क्रये, विक्रयणे निषिद्धाः ॥' इति । अथ ऋयमुहूर्त उच्यते । तत्र पोष्णं रेवती, अंबुपः शततारका, अश्विनी, वातः स्वाती, श्रवः श्रवणः, चित्रा; एतानि भानि कये शुभानि, विक्रयणे निषिद्धानि च । संमतिरत्रोक्तैव ॥ १६ ॥
अथ विक्रयविपण्योर्मुहूतौं शार्दूलविक्रीडितेनाहपूर्वाद्वीशकृशानुसार्पयमभे केंद्रद्विकोणे शुभैः
षट्व्यायेष्वशुभैर्विना घटतनुं सन्विक्रयः सत्तिथौ । रिक्ताभौमघटान्विना च विपणिमैत्रध्रुवक्षिप्रभै
लग्ने चंद्रसिते व्ययाष्टरहितैः पापैः शुभैायखे ॥१७॥ पूर्वेति॥ पूर्वास्तिस्रः, द्वीशं विशाखा, कृशानुः=कृत्तिका, सार्प आश्लेषा, यमभं भरणी, समाहारद्वंद्वः । एषु नक्षत्रेषु विक्रयः सन् शुभो ज्ञेयः । क्रयो निषिद्धश्च । उक्तैवात्रापि संमतिः । अथ केंद्रे-प्रथमचतुर्थसप्तमदशमस्थानेषु, द्विकोणे द्वितीयपंचमनवमस्थानेषु च, शुभैः शुभग्रहस्थितैः षट्च्यायेषु षष्ठतृतीयैकादशस्थानेषु अशुभैः पापग्रहैः स्थितैः कृत्वा घटतनुं कुंभलग्नं विहाय त्यक्त्वा सत्तिथौ शुभतिथौ विक्रयः सन् ज्ञेयः । तदुक्तं श्रीपतिना—'दशमैकादशे लग्ने वित्तकेंद्रत्रिकोणगैः । शुभैः पण्यस्य कर्मोक्तं वर्जयित्वा घटोदयम् ॥' इति। केंद्रसंज्ञा बृहज्जातके-'कंटककेंद्रचतुष्टयसंज्ञाः सप्तमलग्नचतुर्थखभानाम्' इति । अथ विपणिः । रिक्ताः चतुर्थीनवमीचतुर्दश्यः, भौमः मंगलवारः, घटः कुंभलग्नं; एतान्विना वर्जयित्वेत्यर्थः । अन्येषु तिथिवारलग्नेषु विपणिः हट्टे स्थित्वा क्रयविक्रयाख्यं कर्म तच्छुभम् । तथा मैत्रध्रुवक्षिप्रभैश्चित्रानुराधामृगरेवतीरोहिण्युत्तरात्रयाश्विनीपुष्यहस्तैर्विपणिः लग्ने चंद्रसिते मूर्ती चंद्रे शुक्रे च सतीत्यर्थः । व्ययाष्टरहितः पापैः क्रूरग्रहायखे द्वितीयैकादशदशमे शुभैःशुभ