________________
६२
मुहूर्तचिंतामणिः। [क्रयविक्रयनक्षत्राणि वा सत् । शुभफलदं भवतीत्यर्थः । तथा चाह श्रीपतिः-'पौष्णद्वये चादितिभद्वये च हस्तत्रये च श्रवणत्रये च । मैत्रे च मूले च मृगे च शस्तं भैषज्यकर्म प्रवदंति संतः ॥' इति । वसिष्ठोऽपि—'हस्तत्रये पुष्यपुनर्वसौ च विष्णुचये चाश्विनिपौष्णभेषु । मिदुमूलेषु च सूर्यवारे भैषज्यमुक्तं शुभवासरेऽपि॥' इति । अथ व्यंगलग्ने द्विस्वभावराशिषु मिथुनकन्याधनुर्मीनेषु लग्नगतेषु सत्सु शुक्रेद्विज्ये विदि च शुक्रचन्द्रबृहस्पतिबुधेषु द्विस्वभावलग्नस्थेषु सत्सु च पुनस्तेषां शुक्रंद्विज्यबुधानां रवेश्च दिवसे वारे सत्तिथौ रिक्ताऽमारहिते दिने च भैषज्यं सत् । उक्तं च दीपिकायाम्-'व्यंगोदये गुरुबुधेदुसितेषु तेषां वारे रवेश्च सुविधौ सुतिथौ सुयोगे' इति । अथ रिःफधुनमृतिगृहे लग्नावादशसप्तमाष्टमगृहेषु शुद्धेषु शुभपापरहितेषु सत्सु भैषज्यं सत् । तत्र वर्षफलप्रश्नादिना सत्यायुर्दाययोगे औषधसेवनं हितमित्ययं विशेषो ध्येयः। तदुक्तं श्रीपतिना-'धूनशत्रुनिधनव्ययशुद्धौ सद्हेषु नितरां बलवत्सु । आयुषश्च हितकारिणि योगे कीर्तिता नियतमौषधसेवा ॥' इति । कश्यपोऽपि-'षट्सप्ताष्टांत्यशुद्धौ च बलिनः शुभखेचराः । आयुर्दायकरे योगे कर्तव्या ह्यौषधक्रिया ॥' इति । अथ जनेमें जन्मनक्षत्रे नो भैषज्यं सत् । तदुक्तं दीपिकायाम्-'जन्मनक्षत्रगश्चन्द्रः प्रशस्तः सर्वकर्मसु । क्षौरभेषजवादाध्वकर्तनेषु च वर्जयेत् ॥' इति । अथ सूचीकर्ममुहूर्तः । अदितिवसुभत्वाष्ट्रमित्राविधिष्ण्ये पुनर्वसुधनिष्ठाचित्रानुराधाश्विनीषु सूचीकर्म सूच्याः संबंधि घटनसीवनादि सकलं कर्म अपिशब्दात् कवचमपि कुर्यात् । उक्तं च व्यवहारोचये–'अदितिर्वासवं त्वाष्ट्रमैत्रभैंदववाजिनः । सूचीकर्म तनुत्राणमेभिः प्रशस्यते ॥' इति । तनुत्राणं-कवचम् ॥ १५ ॥
अथ क्रयविक्रयनक्षत्रेषु परस्परनिषेधं वदन् क्रयविक्रयनक्षत्राण्यनुष्टुभाह- . - क्रयः विक्रयो नेटो विक्रयः क्रयोऽपि न ।
पौष्णांबुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः ॥१६॥ क्रयः इति ॥ वक्ष्यमाणक्रयनक्षत्रे विक्रयो न कार्यः। तथा विक्रयः क्रयोऽपि न कार्यः। नन्विदमयुक्तं; विक्रयो नाम मूल्यं गृहीत्वा वस्तुदानं, क्रयो नाम मूल्यं दत्त्वा वस्तुग्रहणं । यदा येन क्रयः कर्तव्यः तदान्येन विक्रयोऽपि कर्तव्यः, तत्र क्रयविक्रयनक्षत्राणां महाभेदादुभयविधमुहूर्तानुपपत्तिः। उच्यते-विक्रेत्रा यदा मुहूर्तो विक्रयार्थ गृह्यते तदा ऋयिणोऽनुज्ञां लब्ध्वा यावदिष्टं वस्तु स्वगृहात्पृथक् क्रियते तत्कर्म विक्रयशब्दवाच्यम् , यदा तु क्रयिणा क्रयमुहूर्तः प्राप्यते तदा विक्रेत्रे मूल्यं द्रव्यं दत्त्वा पृथक्कृतं विक्रीतं वस्तु गृह्यते तत्कर्म क्रयशब्दवाच्यमिति मत्वात्र समाधिः । अथवा ऋयिविक्रेत्रोरन्यतरस्य क्रयिणः कदाचिन्मुहूर्तासंभवो ज्ञेयोऽनावश्यकत्वात् । आवश्यकत्वे तु मुहूर्तगवेषणया कालविलम्बनिष्पत्तावन्येन तृतीयेन मुहूर्तविचारमनंगीकृत्य समर्घवस्तुप्राप्ह्या वस्तुग्रहणसिद्धिसंभवात् । तदा विक्रेतुरेव मुहूर्त