________________
औषधसूचीकर्ममुहूर्ताः] नक्षत्रप्रकरणम् २ । कयः-मूल्येन परस्माद्ब्रहणं, विक्रयः-मूल्यग्रहणपूर्वकं दानं, स शस्तः । उक्तं च रत्नमालायाम्-'शाक्रवासवकरेषु विशाखापुष्यवारुणपुनर्वसुभेषु । अश्विपूषभयुतेषु विधेयो विक्रयक्रयविधिः सुरभीणाम् ॥' इति । एतानि नव भानि । भीमपराक्रमेण तु पंचदशभान्यभिहितानि-'हस्तेऽनुराधात्रितये सपौष्णे मृगे च पूर्वाश्विविशाखभेषु । पुष्ये धनिष्ठाद्वितयेऽदितीशे गवां क्रयं विक्रयमामनंति ॥' इति। अत्र श्रीपतिवाक्याद्यान्यधिकानि नक्षत्राणि, तान्यात्ययिकंविषयाणि ॥ १३॥
अथ पशूनां रक्षामुहूर्त स्थितिनिवेशयानमुहूर्त चंद्रवंशयाहलग्ने शुभे चाष्टमशुद्धिसंयुते रक्षा पशूनां निजयोनिभे चरे। रिक्ताष्टमीदर्शकुजश्रवोध्रुवत्वाष्ट्रेषु यानं स्थितिवेशनं न सत् १४
लग्ने इति ॥ शुभे शुभस्वामिके लग्नेऽष्टमशुद्धिसंयुते शुभपापाक्रांताष्टमभावरहिते सति स्वीययोनिनक्षत्रे पशूनां चतुष्पदानां रक्षा शस्ता । यदाह श्रीपतिः-'शुभग्रहोदये शुद्ध नैधने स्वयोनिषु । रक्षाविधिक्रिया शस्ता पशूनां मुनिभिः स्मृता॥' इति । स्वीययोनिनक्षत्राणि विवाहप्रकरणे (लो०२५) 'अश्विन्यंबुपयोर्हयः' इत्यादिना वक्ष्यति । तथा चरे चरनक्षत्रेष्वपि रक्षा पशूनां विधेया। 'तीक्ष्णे पशूनां दमनं चरे स्यात्पशुपोषणम्' इति भीमपराक्रमोक्तेः। अथ रिक्ताः चतुर्थीनवमीचतुर्दश्यः, अष्टमी, दर्शः अमावास्या, कुजः=मंगलः, श्रवः श्रवणः, ध्रुवाणि उत्तरात्रयरोहिण्यः, त्वाष्ट्र-चित्रा; एषु भेषु पशूनां यानं गृहाबहिनिःसारणं स्थिति!ष्ठादौ वेशनं प्रवेशनं च न सत् । सत्फलजनकं न भवतीत्यर्थः । उक्तं च वसिष्ठेन-त्वाष्ट्रध्रुवश्रीपतिभेषु रिक्तादर्शाष्टमीभौमदिने पशूनाम् । यात्रां प्रवेशं न कदाचिदेव कुर्याच्च तेषामभिवृद्धिकांक्षी॥' इति । चशब्दात् स्थितिमपि न कुर्यात् । व्यवहारतत्त्वे तु वाराधिक्यमुक्तम्'स्वयोनिधिष्ण्ये विकुजे पशूनां कर्माथ कुर्यादबुधेदुमंदे । यानं प्रवेशं च तिथावशैवे चित्रोत्तरावैष्णवमान्यभेषु ॥' अशैवे-चतुर्दशीरहिते। उपलक्षणत्वादमावास्यादिरहिते । व्यवहारोच्चये-'पूर्वात्रये धनिष्ठेंद्रपौष्णे सौम्यविशाखयोः । आश्लेषायामथाश्विन्यां यात्रासिद्धिश्चतुष्पदाम् ॥' इति ॥ १४ ॥ अथौषधसूच्योर्मुहूर्त मंदाक्रांताछंदसाहभैषज्यं सल्लघुमृदुचरे मूलभे व्यंगलग्ने
शुक्रंद्विज्ये विदि च दिवसे चापि तेषां रवेश्च । शुद्धे रिःफधुनमृतिगृहे सत्तिथौ नो जनेर्भ
सूचीकर्माप्यदितिवसुभत्वाष्ट्रमित्राश्विधिष्ण्ये ॥१५॥ भैषज्यमिति ॥लघुमृदुचरे अश्विनीपुष्यहस्तचित्रामृगानुराधारेवतीश्रवणधनिष्ठाशततारकास्वातिपुनर्वसुभेषु मूले च भैषज्यमौषधं प्रारब्धं भक्षितं
६ मु. चि.