________________
· मुहूर्तचिंतामणिः। गोक्रयविक्रयमुहूर्ताः धार्य' इति । कश्यपेनापि-'प्रीत्या क्षमापालदत्तं यद्विप्रादेशात्करग्रहे । निये वासरधिष्ण्येऽपि धारयेत्तु नवांबरम् ॥' इति । इदं चोपलक्षणं तुल्यन्यायत्वाद्राज्ञा तथा ब्राह्मणादिभिस्तथा विवाहादिशुभकृत्ये हस्त्यश्वद्रव्यादिकं दत्तं तद्भद्रादिदुष्टदिनेऽपि ग्राह्यम् ॥ १२ ॥ - अथ लतापादपारोपणराजदर्शनमद्यगोक्रयविक्रयमुहूर्तान् शार्दूलविक्रीडितेनाहराधामूलमृदुध्रुवःवरुणक्षिप्रैलतापादपा
रोपोऽथो नृपदर्शनं ध्रुवमृदुक्षिप्रश्रवोवासवैः। तीक्ष्णोग्राम्बुपभेषु मद्यमुदितं क्षिप्रांत्यवह्नीन्द्रभा
दित्येंद्राम्बुपवासवेषु हि गवां शस्तः क्रयो विक्रयः १३ . राधामूलेति ॥ राधा-विशाखा, मूलं, मृदु-चित्रानुराधामृगरेवत्यः, ध्रुवक्ष रोहिण्युत्तरास्तिस्रः, वरुणः शततारका, क्षिप्रम् अश्विनीपुष्याभिजितः । अत्राभिजित उत्तराषाढायामंतर्भावात् पृथगुक्तिर्न भवतीति ज्ञेयम् । कुतः ? अश्विनीपुष्यहस्तानां लाघवात् क्षिप्रत्वेनाभिधानादभिजिदुक्तिरप्यर्थाक्षिप्ता । एवं चतुर्दशभानि । एतैर्नक्षत्रैलतानां पादपानां वृक्षाणां चारोपो वापनं कार्यम् । उक्तं च वराहेण–'ध्रुवमृदुमूलविशाखा गुरुभं श्रवणं तथाऽऽश्विनं हस्तम् । शस्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥' इति । यत्तु वसिष्ठवचनम् –'द्विदैववारीशशशांकमूलध्रुवेषु तिष्यार्कभपौष्णभेषु ॥ वनौषधीगुल्मलतादिकानामारोपणं तूत्तममत्र शस्तम् ॥' इति, तत् पादपव्यतिरिक्तवनाधारोपणविषयम् । यतः पादपारोपणे चतुर्दश नक्षत्राणि, तद्व्यतिरिक्तलताधारोपणे एकादश भानि । ननु-'सावित्रतिष्याश्विनवारुणानि मूलं विशाखा च मृदुध्रुवाणि । लतौषधीपादपरोपणेषु शुभानि भानि प्रतिपादितानि ॥' इति श्रीपतिवचनं कथं संगच्छेत ? उच्यते,वराहपद्यस्थपादपग्रहणं लतादीनामुपलक्षणमिति मत्वा तदुक्तिः । अनेनैवाशयेन ग्रंथकृदुक्तिरपि। अथो राजदर्शनमुहूर्तः। तत्र ध्रुवमृदुक्षिप्रश्रवोवासवैः उत्तरात्रयरोहिणीचित्राऽनुराधामृगरेवत्यश्विनीपुष्यहस्तश्रवणधनिष्ठाभिस्त्रयोदशनक्षत्रैर्नृपदर्शनं राजदर्शनं कुर्यात् । उक्तं च रत्नमालायाम्-'सौम्याश्विपुष्यश्रवणश्रविष्ठाहस्तध्रुवत्वाष्ट्रभपूषभानि। मैत्रेण युक्तानि नरेश्वराणां विलो. कने भानि शुभप्रदानि ॥' अथ मद्यारंभमुहूर्तः। तत्र तीक्ष्णोग्रांबुपभेषु= मूलज्येष्ठाश्लेषापूर्वोत्रयमघाभरणीशततारकासु, मद्यं मद्यप्रारंभः, उदितः । तदाह श्रीपतिः-'रौद्रे पित्र्ये वारुणे पौरुहूते याम्ये साईं नैर्ऋते चैव धिष्ण्ये । पूर्वाख्येषु विष्वपि श्रेष्ठ उक्तो मद्यारंभः कालविद्भिः पुराणैः ॥' इति । अथ गोक्रयविक्रयमुहूर्तः । तत्र क्षिप्रांत्यवह्रींद्रभादित्येंद्रांबुपवासवेषु अश्विनीपुष्यहस्तरेवतीविशाखापुनर्वसुज्येष्ठाशततारकाधनिष्ठासु, गवां