________________
क्वचिन्नेष्टेऽपि वस्त्रपरिधानं सत् ] नक्षत्रप्रकरणम् २ ।
५९ वस्त्राणामिति ॥ वस्त्राणां नव भागाः कार्याः । कोणचतुष्टये अमरा देवाः स्थाप्याः । राक्षसा मध्यभूतांशत्रयगता ज्ञेयाः । नराः सदशे दशासहितपाशे च पुनर्मध्ययोरंशयोः स्थाप्याः । एतदुपलक्षणम् ,-शयनासनपादुकास्वप्ययं विचारः । तत्र चेद्रक्षोंऽशे नवतरे अतिनूतने अंबरे वस्त्रे दैवादग्धे स्फुटिते पाषाणधात्वादिभिर्निहते पंकेन कर्दमेन आदिशब्दाद्गोमयादिभिर्लिो उपहते सति तद्वस्त्रं न सत् शुभफलजनकं न भवतीत्यर्थः। किंतु मरणं विदधाति । अथ नृसुरांशयोरेवं वस्त्रस्य दाहादिके सति शुभं कल्याणं स्यात् । मनुष्यांशे पुत्रप्राप्तिर्देवांशे भोगप्राप्तिरित्यर्थः । अथ साशके राक्षसमनुष्यदेवांशेषु प्रांततः प्रांतभागेऽनिष्टमशुभफलजनकम् । एतत्फलं शय्यासनपादुकास्वपि ध्येयम् । तदुक्तं श्रीपतिना-'कर्दमकजलगोमयलिप्ते वाससि दग्धवति स्फुटिते वा । चिंत्यमिदं नवधाविहितेऽस्मिन्निष्टमनिष्टफलं च सुधीभिः ॥ निवसंत्यमरा हि वस्त्रकोणे मनुजाः पाशदशांतमध्ययोश्च । अपरेऽपि च रक्षसां त्रयोंऽशाः शयने चासनपादुकासु चैवम् ॥ भोगप्राप्तिर्देवतांशे नरांशे पुत्राप्तिः स्याद्राक्षसांशे च मृत्युः । प्रांते सर्वाशेष्वनिष्टं फलं स्यात्प्लुष्टे वस्त्रे नूतने साध्वसाधु ॥' अत्र राक्षसांशे छत्रध्वजादिसदृशी छेदाकृतिः शुभफलेति विशेषो ध्येयः । देवांशेऽपि काकोलूकसदृशी छेदाकृतिरशुभफलदेत्यपि विशेषो ज्ञेयः । तदुक्तं तेनैव-'छत्रध्वजस्वस्तिकवर्धमानश्रीवत्सकुंभांबुजतोरणानाम् । छेदाकृतिनैर्ऋतभागगापि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥ कंकप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पाः। शुष्कद्रुमप्रेतसमा न शस्ता छेदाकृतिर्दैवतभागगापि ॥' इति । अत एव कश्यपः-'नवांशकं समं कृत्वा चिंतयेच्च शुभाशुभम् । वसंति देवताः कोणे चांत्यमध्यद्वये नराः ॥ मध्यांशत्रितये दैत्याश्चैवं शय्यासनादिषु । अर्थप्राप्तिर्देवतांशे पुत्रवृद्धिर्नरांशके ॥ हानिः पीडा पिशाचांशे सर्वप्रांतेष्वशोभनम् । शंखचक्रांबुजच्छनध्वजतोरणसन्निभाः ॥ श्रीवत्ससर्वतोभद्रनंद्यावर्तगृहोपमाः । वर्धमानस्वस्तिकेन मृगकूर्मझषाकृतिः ॥ छेदाकृतिर्दैत्यभागेऽप्यायुरर्थप्रदा नृणाम् । खरोष्ट्रोलूककाकाहिजंबूकश्ववृकोपमाः ॥ त्रिकोणसूर्याकृतयो देवभागेऽप्यशोभनाः । निंदितं वसनं दद्याविजेभ्यः स्वर्णसंयुतम् ॥ आशिषो वाचनं कृत्वा त्वन्यद्वस्त्रं च धारवेत् ॥' इति ॥ ११॥
अथ क्वचिद्दुष्टदिनेऽपि वस्त्रपरिधानमनुष्टुभाह.. विप्राज्ञया तथोद्वाहे राज्ञा प्रीत्यार्पितं च यत् ।
निंद्येऽपि धिष्ण्ये वारादौ वस्त्रं धार्य जगुर्बुधाः ॥१२॥ विप्रेति ॥ धिष्ण्ये नक्षत्रे वारादौ वारतिथियोगादौ व्यतीपातभद्रादिदुष्टयोगैनियेऽपि दुष्टेऽपि यद्द्वस्त्रं ब्राह्मणानुज्ञया तथोद्वाहे राज्ञा संतोषेणार्पितं दत्तं तद्वस्त्रं धार्यमिति बुधा जगुः । उक्तं च रत्नमालायाम्-'विप्रादेशादुद्वाहे च क्ष्मापालेन प्रीत्या दत्तम् । धिष्ण्ये वारे निंद्येऽप्याहुनूनं नव्यं वस्त्रं