________________
मुहूर्तचिंतामणिः । [ दग्धादिदोषफलम्
पौष्णेति ॥ पौष्णं = रेवती, ध्रुवाणि= रोहिण्युत्तरास्तिस्रः, अश्विनी, करपंचकं = हस्तचित्रास्वातीविशाखानुराधाः, वासवं = धनिष्ठा, इज्यः = पुष्यः, आदित्यं = पुनर्वसुः; अयं समाहारद्वंद्वः । तत्र प्रवालं = विद्रुमं, 'पोवळें' इति महाराष्ट्रभाषायां, 'मूगा' इति कान्यकुब्जाः । रदाः = हस्तिदंताः अर्थाद्वलयादि, शंखः = शंखवलयं, सुवर्णं, वस्त्रं श्वेतं; एतानि वस्तूनि धार्याणि तानि रिक्तातिथिशनिचंद्र भौमरहितेऽह्नि दिने धार्याणि । यदाह श्रीपतिः - ' रोहिणीषु करपंचकेऽश्विभे त्र्युत्तरेऽपि च पुनर्वसुद्वये । रेवतीषु वसुदैवते शुभे नव्यवस्त्रपरिधानमिष्यते ॥' इति । प्रवालादीनां तु विशेष - स्तेनैवोक्तः — 'करादिपंचकेऽश्विभे सपौष्णवासरे स्मृता । धृतिश्च शंखकांचनप्रवालरक्तवाससाम् ॥' इति । वारानप्याह स एव - 'जीर्ण रवौ सततमंबुभिरार्द्धमिंदौ भौमे शुचे बुधदिने च भवेद्धनाय । ज्ञानाय मंत्रिणि भृगौ प्रिय संगमाय मंदे मलाय च नवांबरधारणं स्यात् ॥' इति । अतः परिशेषात् सूर्यभौमशनयो निषिद्धाः । अथ रक्तं कौसुंभादिरंगेण रक्तं वस्त्रं भौमे धार्यम् । ‘मांजिष्ठकौसुंभकरागयोश्च महीसुतः कांचनभूषणेषु' इति तेनैवोक्तत्वात् । ' नासत्यपौष्णवसुभैः करपंचकेन मार्तंडभौमगुरुदानवमंत्रिवारैः । मुक्तासुवर्णमणिविद्रुमशंखदंतरक्तांबराणि विष्टतानि भवंति सिद्धौ ॥' इति दैवज्ञवल्लभोक्तेश्च । अथ स्त्रीणां विशेषः । ध्रुवादितियुगे उत्तरात्रयरोहिणीपुनर्वसुपुष्येषु सुभगा सभर्तृका स्त्री प्रवालरदमुक्तादिकं न दध्यात् । उक्तं च दीपिकायाम् - 'पुष्टेदौ समये शुभे ध्रुवसुराचार्यादितीरोंऽगना नो रवं बिटयात्प्रवालकमाणें शंखेभदंतौ तथा' इति । क्वचित्तु शततारानक्षत्रे स्त्रीणां स्नानमपि निषिद्धम् । उक्तं च- ' रोहिणीगुरुपुनर्वसूत्तरे या बिभर्ति नववस्त्र - भूषणम् । सा न योषिदवलंबते पतिं स्नानमाचरति वारुणेऽपि या ॥' इति । चंडेश्वरोऽपि - 'स्नानं कुर्वति या नार्यश्चंद्रे शतभिषान्विते । सप्तजन्म भवेद्वंध्या विधवा दुर्भगा भृशम् ॥ प्रमादाच्छतभे स्नानं नारीणां यदि जायते । पूजयेत्स्वामिनं तत्र आत्मना च धनेन च ॥' इति । विशेषो राजमार्तंडे'अस्तंगते भृगुसुते शयने च विष्णोर्जन्माद्यचापझषगे दिनपे न दध्यात् । रक्तेंदु भानुदिवसेंऽशकवर्जिते च शंखं च रक्तपटकं युवतिः कथंचित् ॥' इति । दिनपः=सूर्यः, रक्तः=भौमः ॥ १० ॥
५८
अथ वस्त्रस्य नवधाविभक्तस्य दग्धादिदोषशुभाशुभफलं शार्दूलविक्रीडितेनाह
वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसा मध्यत्र्यंशगता नरास्तु सदशे पाशे च मध्यांशयोः । दग्धे वा स्फुटितें बरे नवतरे पंकादिलिप्ते न सद्रaisशे नृसुराशयोः शुभमसत्सर्वांश के प्रांततः ॥ ११ ॥