________________
सुवर्णवस्त्रधारणमुहूर्तः] नक्षत्रप्रकरणम् २ ।
तिर्यमुखं मैत्रकरानिलादिति
___ ज्येष्ठाश्विनानीदृशकृत्यमेषु सत् ॥ ९॥ मूलेति॥ मूलं, अहिः आश्लेषा, मिश्रं कृत्तिकाविशाखे, उग्रं-पूर्वात्रयमघाभरण्यः, एतानि नव नक्षत्राण्यधोमुखानि ज्ञेयानि । एष्वीदृशकृत्यमधोमुखकृत्यं वापीकूपादि तत्समीचीनमुक्तम् । तदुक्तं गरुडपुराणे-'भरणीकृत्तिकाश्लेषामघामूलविशाखिकाः । तिस्रः पूर्वास्तथा चैव अधोवक्राः प्रकीर्तिताः ॥' एषु'वापीकूपतडागादिखननं च तृणादिकम् । देवतागारखननं निधानखननं तथा ॥ गणितं ज्यौतिषारंभं खनीबिलप्रवेशनम् । कुर्यादधोगतान्येव कार्याणि वृषभध्वज ॥' इति । अथार्दा, इज्यः-पुष्यः, हरित्रयं श्रवणधनिष्ठाशततारकाः, ध्रुवं-उत्तरात्रयरोहिण्यः; एतन्नक्षत्रनवकमूर्खास्यमूर्ध्वमुखं भवेत् । अत्राप्येतादृशकृत्यं प्रासादादि सत्स्यात् । तदुक्तं गरुडपुराणे-'रोहिण्याा तथा पुष्यो धनिष्ठा चोत्तरात्रयम् । वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः ॥ एषु राज्याभिषेकं च पट्टबंधं च कारयेत् ॥' इति । ऊर्ध्वमुखानि उच्छ्रितानि सर्वाणि एषु च कारयेत् । अथ मैत्रं, मृदुनक्षत्रं-मृगरेवतीचित्रानुराधाः, करः हस्तः, अनिल: स्वाती, अदितिः पुनर्वसुः, ज्येष्ठा, आश्विनं अश्विनी, एतन्नक्षत्रनवकं तिर्यमुखं पार्श्वमुखं भवेत् । अत्रापि तादृशमेव कृत्यं चक्ररथहलादिकं भवेत् । तदुक्तं गरुडपुराणे- रेवती चाश्विनी चित्रा स्वाती हस्तः पुनर्वसुः । अनुरा. धामृगज्येष्ठा एताः पार्श्वमुखाः स्मृताः॥ गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च । बीजानां वपनं कुर्याद्गमनारामनादिकम् ॥ चक्रयंत्ररथादीनां नावादीनां प्रवाहणम् । पार्थेषु यानि कर्माणि कुर्यादेतेषु तानि च ॥' इति । ननु सर्वेषामेव कर्मणां पार्थक्येन नक्षत्राभिधानादिदं पुनरुक्तं किमर्थमुक्तमिति चेन्न । विशेषनक्षत्रविहितानां कर्मणामवश्यकर्तव्यत्वे सति कतिपयदिनमध्ये मुहूर्तालब्धौ सत्यां कर्मण आकारमधोमुखादिकं विदित्वा तत्तन्नक्षत्रेषु तानि तानि कर्माणि कार्याणि । यानि सर्वथा विशेषतोऽनुक्तान्येव बिलप्रवेशनिधिखननचक्रयंत्रहलपरिखाद्यूतक्रीडामेषगर्दभगर्तादीनि तेषामेष्वेव नक्षत्रेषु कृतिरुचिता। एवमन्येषामप्यप्रसिद्धानां कर्मणां तिर्यङ्मुखाद्याकारज्ञाने सत्येषु नक्षत्रेषु कर्तव्यतौचित्यात् । सामान्येन विशेषभावेन च सुदिनलब्धिः 'द्विर्बद्धं सुबद्धं भवति' इति न्यायादत्युत्तमैव । सद्यस्कालपक्षे तु 'धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य' ( ११५६) इति वचनात्तन्मुहूर्ते कार्यमित्यलमियता ॥ ९॥ अथ प्रवालदंतशंखसुवर्णवस्त्रपरिधानमुहूर्त वसंततिलकेनाह
पौष्णध्रुवाश्विकरपंचकवासवेज्या
दित्ये प्रवालरदशंखसुवर्णवस्त्रम् । धार्य विरिक्तशनिचन्द्रकुजेऽह्नि रक्तं
भौमे ध्रुवादितियुगे सुभगा न दध्यात् ॥१०॥