________________
: मुहूर्तचिंतामणिः। [अधोमुखादिनक्षत्राणि रतिः स्त्रीभोगः, ज्ञान-शास्त्रादेः, भूषा आभरणं, शिल्पं चित्रादि, कला:चतुःषष्टिकला नृत्यादिकाः। मादिशब्दाचरनक्षत्रोक्तमपि कार्यम् । तदाह वसिष्ठः-'सुरसचिवाश्विनहस्तास्ताराः स्युः क्षिप्रसंज्ञकास्तासु । औषधपण्यविभूषणशिल्पकलाज्ञानकर्मसिद्धिः स्यात् ॥ चरधिष्ण्ये कथितान्यपि कार्याण्यखिलानि लघुगणे नूनम् ॥' इति । नारदोऽपि-'क्षिप्रं सूर्याश्विपुण्यभम्' इत्याह । अत्राभिजिन्नोक्तः । दैवज्ञमनोहरे-'आर्टिषेण' इत्युक्त्वा पठितम् 'लघुक्षिप्रं करस्तिष्योऽभिजिद्दास्रं बृहस्पतिः' इति । अत एवोक्तं श्रीपतिना-'अश्विनीगुरुभमर्कदैवतं साभिजिल्लघुचतुष्टयं स्मृतम्' इति । वसिष्ठादिभिस्तु प्रत्येकं नक्षत्रकृत्येषु अभिजितोऽनुक्तेरित्यतोऽत्राप्यनुक्तिः । वारकृत्ये नारदः-'यज्ञपौष्टिकमांगल्यस्वर्णवस्त्रादिभूषणम् । वृक्षगुल्मलतायानकर्म देवेज्यवासरे ॥' इति ॥ ६ ॥ अथ मृदुगणमनुष्टुभाह. मृगांत्यचित्रामित्रदं मृदु मैत्रं भृगुस्तथा ।
तत्र गीतांबरक्रीडामित्रकार्यविभूषणम् ॥७॥ - मृगांत्येति ॥ मृगः, अंत्यं रेवती, चित्रा, मित्रति॑म् अनुराधा, भृगुः= शुक्रः, मृदुसंज्ञं मैत्रसंज्ञं च। तत्र गीतं, अंबरं वस्त्रं, क्रीडा-स्त्रिया सह क्रीडा, मित्रस्येष्टस्य कार्य, विभूषण अलंकारः एतसिध्यति । यदाह वसिष्ठः-'मृदुवृदं भचतुष्टयमंत्यत्वाष्ट्राख्यसौम्यमित्रक्षम् । मंगलवनिताभूषणमंदिरगीतानि सिध्यति ॥' इति । तत्र नारदः-'नृत्यवादित्रगीतादिस्वर्णस्त्रीरत्नभूषणम् । भूपण्योत्सवगोधान्यकर्म भार्गववासरे ॥' इति. ॥ ७ ॥ अथ तीक्ष्णगणमनुष्टुभाह
मूलैंद्रााहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् ।
तत्राभिचारघातोग्रभेदाः पशुदमादिकम् ॥ ८॥ मूलैंद्रेति ॥ मूलं, ऐंद्र-ज्येष्ठा, आर्द्रा, अहिभम् आश्लेषा, सौरिः शनैश्वरः, तीक्ष्णसंज्ञं दारुणसंशं च । तत्र तीक्ष्णनक्षत्रे अभिचारकर्माणि, उग्रं भयंकरकृत्यं मारणादि, भेदः अत्यंतमित्रयोः कलहोत्पादनादि, पशूनां हस्त्यादीनां दमः शिक्षा, आदिशब्दाबंधनादीनि । यदाह वसिष्ठः-'दारुणभानि पुरन्दरकोणपशिवसर्पदैवानि । दारुणबंधनंदहनप्रहरणकर्माणि सिद्धिमायांति ॥' इति । नारदः–'त्रपुसीसायसाश्मास्त्रविषपानासवानृतम् । स्थिरकर्माखिलं वास्तुसंग्रहं सौरिवासरे ॥' इति ॥ ८॥ अथाधोमुखोर्ध्वमुखतिर्यड्मुखनक्षत्राणि इंद्रवंशेनाह
मूलाहिमिश्रोग्रमधोमुखं भवे... दूर्ध्वास्थमाईज्यहरित्रयं ध्रुवम् ।