________________
उग्र- मिश्र-लघुगणाः ]
नक्षत्रप्रकरणम् I
लोपः । आदित्यं = पुनर्वसुः । श्रुतेः श्रवणमारभ्य त्रीणि श्रवणधनिष्ठाशततारकाः सोमवारश्च चरसंज्ञाश्चलसंज्ञाश्चैते ज्ञेयाः । तस्मिंश्चरनक्षत्रे गजो हस्ती तदादयोऽश्वादयस्तेषामारोहः, वाटिका आरामस्तथा गमनं यात्रा | आदिशब्दाल्लघुनक्षत्रोक्तमपि कर्म सिध्यतीति शेषः । तदाह वसिष्ठः - 'अदितिः श्रुतिभात्रितयं चरसंज्ञं पंचकं मरुद्धं च । वाहनकर्मविभूषणचर कार्योद्यानमंत्र - सिद्ध्यै तत् ॥ कथितान्यपि लघुवृंदे चरसंज्ञे तानि कार्याणि । मणिमुक्ताफलहेमसद्वजतत्रपुसीसकर्माणि ॥' इति । नारदः - ' शंखमुक्तांबुरजतवृक्षेक्षुस्त्रीविभूषणम् । पुष्पगीतक्रतुक्षीर कृषिकर्मेंदुवासरे ॥' इति ॥ ३ ॥
अथोग्रगणमनुष्टुभाह—
पूर्वात्रयं याम्यमधे उग्रं क्रूरं कुजस्तथा । तस्मिन्घाताग्निशाठ्यानि विषशस्त्रादि सिध्यति ॥ ४ ॥ पूर्वात्रयमिति ॥ पूर्वात्रयं = पूर्वाफल्गुनीपूर्वाषाढापूर्वाभाद्रपदारूपं नक्षत्रत्रयं, याम्यं=भरणी, मघा च, तथा कुजः = भौमश्च, उग्रसंज्ञः, क्रूरसंज्ञश्च । तस्मिन्=उग्रनक्षत्रे, घातः = हननं, अग्निः = अग्निदाहः, शाठ्यं=खलत्वं, विषं=विषभक्षणादि, शस्त्रं =शस्त्रमारणादि, आदिशब्दादन्यदपि अरिष्टकृत्यं दारुणनक्षत्रोक्तं सिध्यतीति निष्पद्यते । उक्तं च वसिष्ठेन - 'पूर्वात्रितयं पित्र्यभमुग्राख्यमिदं च पंचकं याम्यम् | मारणभेदनबंधनविषहननं पंचभे कार्यम् ॥ यद्दारुणभोक्तं तत्कर्म त्वयोग्रभे कार्यम् ॥' इति । नारदः - 'विषाग्निबंधनस्तेयसंधिविग्रहमासवम् । धात्वाकरप्रवालस्त्रीकर्म भूमिजवासरे ॥' इति ॥ ४ ॥
अथ मिश्रगणमनुष्टुभाह
विशाखायभे सौम्यो मिश्रं साधारणं स्मृतम् । तत्राग्निकार्यं मिश्रं च वृषोत्सर्गादि सिद्धये ॥ ५॥
५५
विशाखेति ॥ विशाखा, आग्नेयं = कृत्तिका, सौम्यः - बुधश्च, एतत्रयं मिश्रसंज्ञ, साधारणसंज्ञं च । तत्र मिश्रसंज्ञेषु नक्षत्रेषु अग्निकार्य = अग्निहोत्रं, मिश्रनक्षत्रांतरोक्तं कर्म, वृषोत्सर्गः - काम्यः । आदिशब्दादुग्रमपि कर्म सिद्धये भवति । तदाह वसिष्ठः - ' भद्वितयं श्वसनसखं सेंद्राग्निभकं च मिश्रसंज्ञ हि । निखिलानि च साधारणकार्याण्युग्राणि तत्र कार्याणि ॥' इति । नारदः'नृत्यशिल्पकलागीतलिपिभूरससंग्रहम् । विवाहधान्यसंग्राहकर्म सौम्यस्य वासरे ॥' इति ॥ ५ ॥
अथ लघुगणमनुष्टुभाह
-
हस्ताश्विपुष्याभिजितः क्षिप्रं लघु गुरुस्तथा । तस्मिन्पण्यरतिज्ञानभूषाशिल्पकलादिकम् || ६ ||
हस्ताश्वीति ॥ पूर्वाधं स्पष्टम् । तस्मिन् लघुनक्षत्रे, पण्यं = विक्रेयवस्तु,