________________
मुहूर्तचिंतामणिः। [ध्रुव-चरगणौ भूषणम् । विवादाश्वभकृष्यादिक्षौरकर्म समीरभे ॥ वस्त्रभूषणवाणिज्यरसधान्यादिसंग्रहम् । इन्द्राग्निभे नृत्यगीतशिल्पलेखनकर्म यत् ॥ प्रवेशस्थाप्रनोद्वाहव्रतबन्धाष्टमंगलम् । वस्त्रभूषणवास्तुश्च मैत्रभे संधिविग्रहम् ॥ क्रूरोग्रशस्त्रवाणिज्यगोमहिष्यंबुकर्म च । इन्द्रभे नृत्यवादिनशिल्पलोहाश्मलेखनम् ॥ विवाहकृषिवाणिज्यदारुणाहवभेषजम् । निर्ऋतिभे नृत्यशिल्पसंधिविग्रहलेखनम् ॥' इति । पूर्वाषाढोत्तराषाढयोः कृत्यमुक्तम् । 'प्रतिष्ठाक्षौरसीमंतयानोपनयनौषधम् । पुरग्रामगृहारंभा विष्णुभे पटबंधनम् ॥ वस्त्रोपनयनक्षौरप्रतिष्ठायानभूषणम् । वसुभे वास्तुसीमंतप्रवेशास्त्रविभूषणम् ॥ प्रवेशस्थापनक्षौरमौंजीबन्धनभेषजम् । अश्वारोहणसीमंतवास्तुकर्म जलेशभे॥' इति । पूर्वाभाद्रपदोत्तराभाद्रपदयोः कृत्यमुक्तं पूर्वम् । 'विवाहव्रतबन्धाश्च प्रतिष्ठायानभूषणम् । प्रवेशवस्त्रसीमंतक्षौरभेषजमंत्यभे ॥' इति ॥ १ ॥ अथ ध्रुवगणं तत्कृत्यं चानुष्टुभाह- उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम् ।
तत्र स्थिरं बीजगेहशांत्यारामादि सिद्धये ॥ २ ॥ उत्तरात्रयेति ॥ उत्तरा उत्तराफल्गुन्युत्तराषाढोत्तराभाद्रपदास्तिस्र उत्तराः रोहिणी च एतानि नक्षत्राणि ध्रुवसंज्ञकानि स्थिरसंज्ञानि चेति संज्ञाद्वयम् । एवमुत्तरत्रापि व्याख्येयम् । तत्र ध्रुवनक्षत्रेषु स्थिरं कर्म कार्यम् । तथा बीज यवादि, गेहं-गृहं, शांतिः विनायकशांत्यादि, आरामः नगरोपकंठवर्ति वनम्। आदिशब्दान्मृदुनक्षत्रोक्तमपि कर्म सिद्धये भवति । तदुक्तं वसिष्ठेन-'स्थिर- . संज्ञं भचतुष्टयमंबुजजसंमुत्तरात्रितयम् । नरपतिपत्तनसदनप्रवेशबीजादि सिध्यते तत्र ॥ मृदुबूंदे कथितान्यपि स्थिरवृंदे तानि कार्याणि ॥' इति । अथ संज्ञाद्वये प्रमाणमुच्यते-'ध्रुवमचलं क्षिप्रं लघु चरं चलं मैत्रमृदुसंज्ञे । साधारणमिश्राख्यं क्रूरोग्रं तीक्ष्णदारुणं तुल्यम् ॥' इति वसिष्ठोक्तेः । एवं भास्करो रविरपि स्थिरः । यदाह वसिष्ठः-'सूर्यः स्थिरः शीतकरश्चरात्मा धराज उग्रः शशिजो विमिश्रः । देवेंद्रपूज्यो लघुरिंद्रशत्रुपूज्यो मृदुस्तीक्ष्णतनुश्च सौरिः ॥' इति । अत्रापि सामान्यतः स्थिरकृत्यं कार्य मूलश्लोकोक्तम् । अन्यदपि वारोक्तं कर्म कार्यमभिधानात् । यदाह नारदः-'नृपाभिषेकमांगल्यसेवायानास्त्रकर्म यत् । औषधाहवधात्वादि विधेयं भानुवासरे ॥' इति ॥२॥ अथ चरगणं तत्कृत्यं चानुष्टुभाह
खात्यादित्ये श्रुतेस्त्रीणि चंद्रश्चापि चरं चलम् ।
तस्मिन्गजादिकारोहो वाटिकागमनादिकम् ॥३॥ खात्यादित्य इति ॥ स्वाती, आदित्यं-अदितिर्देवताऽस्यादित्यम् , 'दित्यदित्यादित्यपत्युत्तरपदापण्यः' इति ण्यः । आदिवृद्धिः । 'यस्येति च' इतीकार