________________
नक्षत्रकृत्यानि]
नक्षत्रप्रकरणम् २।
नासत्यौ-अश्विनीकुमारौ। भरण्याः-अन्तकः यमः। कृत्तिकायाः-वह्निः अग्निः। रोहिण्याः-धाता ब्रह्मा । मृगस्य-शशभृत्-चन्द्रः। आर्द्रायाः-रुद्रः महादेवः। पुनर्वसो:-अदितिः=देवमाता। पुष्यस्य-इज्यः बृहस्पतिः। आश्लेषायाःउरगः सर्पः । मघायाः-पितरः। पूर्वाफल्गुन्याः-भगः सूर्यविशेषः । उत्तराफल्गुन्याः-अर्यमा सूर्यविशेषः । हस्तस्य-रविः सूर्यः । चित्रायाः-त्वष्टा विश्वकर्मा । स्वात्याः-आशुगः वायुः। विशाखायाः-शक्राग्नी-इन्द्राग्नी । अत्र समुदितयोर्देवतात्वं । अनुराधायाः-मित्रः सूर्यविशेषः । ज्येष्ठायाः-शक्रः इन्द्रः । मूलस्य-निर्ऋतिः राक्षसः। पूर्वाषाढाया:-क्षीरं-उदकं । उत्तराषाढायाः-विश्वेविश्वेदेवाः। अभिजितः-विधिः । श्रवणस्य-गोविंद: विष्णुः । धनिष्ठायाःवसवः अष्टौ देवताविशेषाः । शततारकायाः-तोयपः वरुणः । पूर्वाभाद्रपदायाः-अजचरणः रुद्रविशेषः। उत्तराभाद्रपदायाः-अहिर्बुध्न्यः रुद्रविशेषः । रेवत्याः-पूषा-सूर्यविशेषः । यदाह नारद:-'नक्षत्रेशाः क्रमादत्रयमवह्निपितामहाः । चन्द्रेशादितिजीवाहिपितरो भगसंज्ञिताः ॥ अर्यमार्कस्त्वष्ट्रमरुच्छक्राग्नीमित्रवासवाः । निर्ऋत्युदकविश्वेजगोविंदा वसवोंऽबुपः ॥ ततो. ऽजपादहिर्बुभ्यः पूषा चेति प्रकीर्तिताः ॥' इति । प्रयोजनं तु तिथिप्रकरणे प्रोक्तमस्माभिः । अत्र वसव इति बहुवचनांतत्वाद्बहूनामेव व्यासज्यवृत्तिदेवतात्वं प्रतीयते । 'धनिष्ठानक्षत्रं वसवो देवता' इति श्रुत्युक्तेश्च । एवं सति केचिद्दीपिकाकारादयो बहुत्वमविवक्षितमिति मत्वा वसुशब्दं च द्रव्यवाचकं मत्वा स्वं धनं द्रव्यमित्यादिशब्द धनिष्ठानक्षत्रवाचकं मन्यंते, ते चिन्त्योक्तयो वेदितव्याः । अथ प्रसंगात्प्रत्येकं नक्षत्रकृत्यानि ग्रन्थकृदनुक्तान्यप्युच्यते । तान्याह नारदः-'वस्त्रोपनयनक्षौरसीमन्ताभरणक्रियाः । स्थापनाश्वेभयानस्त्रीकृषिविद्यादयोऽश्विभे ॥ वापीकूपतडागादिविषशस्त्रोग्रदारुणाः । बिलप्रवेशगणितनिक्षेपा याम्यभे शुभाः ॥ अन्याधानास्त्रशस्त्रोग्रसंधिविग्रहदारुणाः । संग्रामौषधवादित्रक्रियाः शस्ताश्च वह्निभे ॥ सीमंतोन्नयनोद्वाहवस्त्रभूषास्थिरक्रियाः । हयहस्त्यभिषेकाश्च प्रतिष्ठा ब्रह्मभे शुभाः ॥ प्रतिष्ठाभूषणोद्वाहसीमंतोन्नयनक्रियाः । क्षौरवास्तुगजोष्ट्राश्वयात्राः शस्ताश्च चन्द्रभे ॥ ध्वजतोरणसंग्रामप्राकारास्त्रक्रियाः शुभाः । संधिविग्रहवैराणि रसाद्याः शर्वभे शुभाः ॥ प्रतिष्ठायानसीमन्तवस्त्रवास्तूपनायनम् । क्षौराश्वकर्मादितिभे विधेयं धान्यभूषणम् ॥ यात्राप्रतिष्ठासीमन्तव्रतबन्धप्रवेशनम् । करग्रहं विना सर्व कर्म देवेज्यभे शुभम् ॥ अनृतं व्यसनं द्यूतं धातुवादीषधाहवम् । विवादरसवाणिज्यं कर्म कद्रुजभे शुभम् ॥ कद्रुजः सर्पः। कृषिवाणिज्यगोधान्यरणोपकरणादिकम् । विवाहनृत्यगीताचं निखिलं कर्म पैत्रभे ॥ विवादविषशस्त्राग्निदारुणोग्राहवादिकम् । पूर्वात्रयेऽखिलं कर्म कर्तव्यं मांसविक्रयः ॥ प्रतिष्ठोद्वाहसीमंताभिषेकव्रतबन्धनम् ॥ प्रवेशस्थापनाश्वेभवास्तुकर्मोत्तरात्रये ॥ प्रतिष्ठोद्वाहसीमंतयानवस्त्रोपनायनम् । क्षौरवास्त्वभिषेकाश्च भूषणं कर्म भानुभे ॥ प्रवेशवस्त्रसीमंतप्रतिष्ठाव्रतबंधनम् । खाष्ट्रभे वास्तुविद्याश्च क्षौरभूषणकर्म यत् ॥ प्रतिष्ठोपनयोद्वाहवस्त्रसीमंत