________________
मुहूर्तचिंतामणिः ।
[ नक्षत्रस्वामिनः
नकुलश्वाहिमार्जारमूषकैः । कृतेंतरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ खरोष्ट्र गर्दभोलूकसामबाणार्तनिःस्वने । अमेध्यशवशूद्रांत्यश्मशानपतितांतिके ॥ देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्त्वार्द्धपाणिरंभोभिरर्धरात्रेऽतिमारुते ॥ पांसुवर्षे दिशां दाहे संध्यानीहारभीतिषु । धावतः पूतिगंधे च शिष्टे च गृहमागते ॥ खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । अष्टत्रिंशदनध्यायानेतांस्तात्कालिकान् जगुः ॥' इति । अन्यच्च - ' अहन्येते ह्यनध्यायाः शिष्यत्विग्गुरुबंधुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये मृते ॥ एवमादयोऽन्येऽप्यनध्याया धर्मशास्त्रोक्ता अनुसंधेयाः । ते च व्रतबंधे विद्यारंभे व्रतविसर्गादौ नित्याध्ययने च यथायोग्यं वर्जनीयाः । सोपपदादीननध्यायान् ग्रंथकृद्रतबन्धप्रकरणे वक्ष्यतीति शिवम् ॥ ५७ ॥
अथ शुभाशुभप्रकरणं गद्येनोपसंहरति
५२
इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणी शुभाशुभप्रकरणं समाप्तम् ॥ १ ॥
'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । श्रीशब्दो वाक्यालंकारे । शुभं = सिद्धियोगादि, अशुभं सिंहस्थादि, तयोः प्रकरणं निरूपणम् । अन्यत् स्पष्टम् । ‘ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने हि शुभाशुभप्रकरणं पूर्णत्वमध्यागमत् ॥' इति श्रीविद्वद्वरदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां शुभाशुभप्रकरणं समाप्तम् ॥ १ ॥
नक्षत्रप्रकरणम् २ । ि शर्वाणीतनयमघाब्धिदावमीशं नत्वा श्रीगुरुपदभक्तिलब्धविद्यः । गोविंदो विबुधवरप्रहर्षिणीं तां नक्षत्रप्रकरणटिप्पणीं तनोति ॥ १ ॥
अथ नक्षत्रप्रकरणं व्याख्यायते । तत्रादौ नक्षत्राणां प्रसिद्धत्वादेवावक्तव्यतायां सिद्धायां तत्स्वामिनः शार्दूलविक्रीडितेनाहनासत्यान्तकवद्विधातृशशभृगुद्रादितीज्योरगा
---
1
ऋक्षेशाः पितरो भगोऽर्यमरवित्वष्ट्राशुगाश्च क्रमात् aarat खलु मित्रशनिर्ऋतिक्षीराणि विश्वे विधिगोविंदो वसुतोयपाजचरणाहिर्बुध्यपूषाभिधाः ॥ १॥ नासत्यान्तकेति ॥ एते क्रमाक्षेशा नक्षत्राधीशा ज्ञेयाः । यथा, अश्विन्याः --