________________
५१
तात्कालिकानध्यायाः] शुभाशुभप्रकरणम् ।। भाद्रेऽग्निश्च सिते त्वमाष्ट नभसः कृष्णे युगाद्याः सिते
गोऽग्नी बाहुलराधयोर्मदनदर्शी भाद्रमाघासिते ॥ ५७ ।। मन्वाद्या इति ॥ एते चतुर्दश मन्वाद्या ज्ञेयाः । सिते इति वक्ष्यमाणं पदमनुकृष्य चैत्रादिमासेष्वपि संबध्यते । मधौ-चैत्रमासे, सिते-शुक्लपक्षे, त्रितिथी-तृतीयापूर्णिमे । ऊर्जे-कार्तिके, शुक्लपक्षे तिथिरवी-पूर्णिमाद्वादश्यो। शुचौ आषाढमासे शुक्लपक्षे, दितिथी-दशमीपूर्णिमे । ज्येष्ठे, अंत्ये-फाल्गुने च तिथिः पूर्णिमा । इषे आश्विने शुक्लपक्षे नव-नवमी । तपसि मासे-माघे मासि शुक्लपक्षे, अश्वाः सप्तमी। सहस्ये पौष शुक्लपक्षे,शिवा एकादशी। भाद्रे भाद्रपदमासे शुक्लपक्षे, अग्निः तृतीया। नभसः श्रावणस्य, कृष्णे-कृष्णपक्षे, अमा अमावास्या, अष्ट अष्टमी । अत्राष्टमी जन्माष्टमी तदनंतरभाविनी अमावास्या च गृह्यते । यदाह नारदः-'द्वादश्यूर्जे शुक्लपक्षे नवम्याश्वयुजे सिते । चैत्रे भाद्रपदे चैव तृतीया शुक्लसंज्ञिता ॥ एकादशी सिता पौषेऽप्याषाढे दशमी सिता । माघे च सप्तमी शुक्ला नभस्येऽप्यसिताष्टमी ॥ श्रावणे मास्यमावास्या फाल्गुने मासि पूर्णिमा । आषाढे कार्तिके मासि चैत्री ज्येष्ठस्य पूर्णिमा ॥ मन्वादयः स्नानदानश्राद्धेष्वानंत्यपुण्यदाः ॥' इति । मत्स्यपुराणेऽपि-'आश्वयुक् शुक्लनवमी कार्तिके द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ श्रावणस्य त्वमावास्या पौषस्यैकादशी तथा । आषाढस्यापि दशमी माघमासस्य सप्तमी ॥ श्रावणस्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा । कातिकी फाल्गुनी चैत्री ज्यैष्टी पंचदशी सिता ॥ मन्वंतरादयश्चैता दत्तस्याक्षयकारिकाः ॥' इति । अत्र नारदवाक्ये-'नभस्येऽप्यसिताष्टमी' इति, तत् कृष्णादिमासाभिप्रायेण । मत्स्यपुराणवचनं तु-'श्रावणस्याष्टमी कृष्णा' इति तच्छुक्लादिमासाभिप्रायेण । एवं सति जन्माष्टमी सिद्धा । उभयमते अमावास्या शुक्लमासाभिप्रायेण जन्माष्टम्यनंतरभाविनी गृह्यते ॥ अथ युगाद्याः युगादयश्चत्वार उच्यन्ते । बाहुल: कार्तिकः, राधः वैशाखः, गोऽग्नी-नवमीतृतीये यथासंख्ये ज्ञेये, सिते-शुक्लपक्षे । कार्तिके-शुक्लपक्षे नवमी, वैशाखेशुक्लपक्षे तृतीया, भाद्रमाघासिते यथासंख्यं मदनदी भाद्रपदकृष्णपक्षत्रयोदशी माघकृष्णामावास्या एते युगादयश्चत्वारः । यदाह नारद:-'कार्तिके शुक्लनवमी चादिः कृतयुगस्य सा । त्रेतादिधिवे शुक्ला तृतीया पुण्यसंज्ञिता ॥ कृष्णा पंचदशी माघे द्वापारादिरुदीरिता । कल्पादिः स्यात्कृष्णपक्षे नभस्ये च त्रयोदशी ॥' शुक्लादिमासाभिप्रायेण श्राद्धपक्षत्रयोदशी प्रसिद्धशिवरात्र्यनंतरभाविन्यमावास्या च गृह्यते। उशनाः-'अयने विषुवे चैव शयने बोधने हरेः । अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु ॥' इति । याज्ञव
ल्यस्त्वष्टत्रिंशत्तात्कालिकाननध्यायानाह-'संध्यागर्जितनिर्धातभूकंपोल्कानिपातने । समाप्य वेदं धुनिशमारण्यकमधीत्य च ॥ पंचदश्यां चतुर्दश्यामठम्यां राहुसूतके । ऋतुसंधिषु भुक्त्वा च श्राद्विकं प्रतिगृह्य च ॥ पशुमंडूक.