________________
मुहूर्तचिंतामणिः। [चतुर्दश मन्वादयः अथ कालहोराप्रयोजनमन्यच्च शालिन्याह
वारे प्रोक्तं कालहोरासु तस्य
धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य । कुर्यादिक्शूलादि चिंत्यं क्षणेषु
नैवोल्लंघ्यः पारिश्चापि दंडः॥५६॥ वारे प्रोक्तमिति ॥ यत्कर्म यस्मिन् वारे प्रोक्तं तद्दिनस्य सदोषत्वादत्यावश्यककृत्ये तस्य कालहोरायां कर्तव्यम् । यदाह नारदः-'यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते। ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा ॥' इति। अत्र केचित्-यस्य वारे यत्कर्म प्रोक्तं तस्य बलिनो नवांशे सूर्यश्चन्द्रो वा चेत्तिष्ठेत् तदा तत्कर्म कार्यमित्याहुः। उक्तं च-'यस्य ग्रहदिने कर्म यत्किंचिदभिधीयते । तस्यांशसंस्थिते सूर्ये चंद्रे वा तद्विधीयते ॥' इति । कैश्चित्प्रत्येक होराफलान्युक्तानि-'भानुहोरा मृतिं कुर्याचंद्रहोरा स्थिरासनम् । काराबंधं भौमहोरा बुधहोरा च पुत्रदा ॥ वस्त्रालंकारदा जीवहोरा शौक्री विवाहदा । जडत्वं शनिहोरायां सप्तहोराफलं त्विदं ॥ प्रश्नकाले यदा होरा तदा तत्फलमाप्नुयात् ॥' इति । उदयादारभ्य होरानयनप्रयोजनं तु-'पादं स्ववर्षे च दलं स्वमासे दिने स्वकीये चरणोनरूपम् । रूपं स्वहोरास्विति कालवीर्यमुक्तं हि होरानिपुणैः पुराणैः॥' इति । युक्तं चैतत् ; वर्षेशादीनामुदयादितः प्रवृत्तानां साहचर्याद्वारेशा अप्युदयादेव गणनीयाः ॥ अथ प्रसंगान्नक्षत्रप्रयुक्तानां कर्मणां नक्षत्राभावेनानुष्ठाने प्राप्तेऽपवादमाह-धिष्ण्य इति। यस्मिन्धिष्ण्ये नक्षत्रे यत्कर्म वस्त्रपरिधानादिकमुक्तं तत्सत्यावश्यकत्वेऽस्य धिष्ण्यस्य स्वामितिथ्यंशके स्वामिमुहूर्ते कुर्यात् । उक्तं च नारदेन–'यस्मिनक्षे तु यत्कर्म निखिलं कथितं च यत् । तदैवत्ये तन्मुहूर्ते कार्य यात्रादिक तथा ॥' इति । मुहूर्तस्वामिनो विवाहप्रकरणे वक्ष्यति । अथात्रापि स्वामितिथ्यंशे इदमवश्यं चिंत्यं विचारणीयम् । किं ? दिक्शूलाचं वारशूलं नक्षत्रशूलं च । आदिशब्देन लालाटिकयोगोऽपि । क्षणेषु मुहूर्तेषु इदमवश्यं चिंत्यं विचारणीयम् । एवं पारियो दंडः क्षणेषु नैवोल्लंघ्यः । यदाह वसिष्ठः'यत्कर्म कथितमृक्षे यस्मिंस्तत्कर्म तत्क्षणे कार्यम् । दिक्शूलादिकमखिलं पारिघदंडादि विज्ञेयम् ॥' इति । विज्ञेयं अवश्यं विचारणीयम् । दिक्शूलादिकं तु यात्राप्रकरणे वक्ष्यति ॥ ५६ ॥ . अथ कार्यमात्रनिषिद्धान्मन्वादीन युगादींश्व शार्दूलविक्रीडितेनाहमन्वाद्यास्त्रितिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी
ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्से शिवा ।