________________
४९
कालहोराः]
शुभाशुभप्रकरणम् । अथ वारप्रवृत्तिप्रयोजनपुरःसरां होरामनुष्टुभाहवारादेटिका द्विघ्नाः स्वाक्षहच्छेषवर्जिताः। सैकास्तष्टा नगैः कालहोरेशा दिनपात्क्रमात् ॥ ५५ ॥ वारादेरिति ॥ वारप्रवृत्तिप्रकारेण यस्मिन् क्षणे वारप्रवृत्तिर्जाता तत इष्टघट्यो द्विगुणाः कार्याः । ता द्विस्थाने स्थाप्याः । तत्र पंचभिर्भक्ते यल्लब्धं तत् त्याज्यं । यच्छेषं तत् द्विगुणघटीमध्ये वर्जितं कार्यम् । एवंविधा घट्यः सैका एकयुक्ताः कार्याः। ततो नगैः सप्तभिस्तष्टा भक्ता अवशिष्टाः कालहोराः स्युस्तद्दिनपाद्वारात्क्रमाद्गणनीयाः। यथा-रविवारे इष्टघटिकाः षद ६ द्विगुणाः १२ पृथगक्षाप्तशेष २ वर्जिताः १० सैकाः ११ नगैस्तष्टाः शेषं ४ रविवारे क्रमगणनया चतुर्थों बुधस्तस्य होरा । अत्र वासना । तत्र वसिष्ठः-'वारप्रवृत्ते. र्गदिता दिनेशात्कालाख्यहोरापतयः क्रमेण । सार्धन नाडीद्वितयेन तष्टः षष्टश्च षष्ठश्च पुनःपुनः स्यात् ॥' इति । तत्र कृतेऽहोराने चतुर्विंशतिः कालहोरा भवन्ति । अत्रानुपातः-यदि घटिकानां षष्टया ६० चतुर्विंशति)रा २४ लभ्यन्ते, तदा एकया किमिति । अत्रैकेन गुणने विशेषाभावाच्चतुर्विंशतः छेदः पष्टिर्जातः । उभयोादशापवर्ते इष्टघटिका द्विगुणाः पञ्चभक्ताः कालहोराः स्युरिति । तथा चोक्तं रत्नमालायाम्-'वारप्रवृत्तेर्घटिका द्विनिनाः कालाख्यहोरापतयः शराप्ताः । दिनाधिपाद्या रविशुक्रसौम्यशशांकसौरेज्यकुजाः क्रमेण ॥' अथ ग्रंथकृदुक्ता वासना-सार्धघटिद्वयेनैका होरा द्विगुणिताः सार्धद्विघव्यः पंच भवंति । अत एवोक्तं 'वारादेर्घटिका द्विघ्नाः' इति । एकयोगे षद जाताः । एवं रविवारे क्रमेण गणनया द्वितीया शुक्रस्य कालहोरा प्रवृत्ता। अत उक्तं 'सैका' इति । भवन्मतेऽपि सूर्याषष्ठः शुक्रस्तस्यैव होरा । इयं च शुक्रहोरा पंचघटीपर्यंत । स्वमते इष्टघटिका ४ द्विगुणाः ८ अत्र पंचभ्य आधिक्यमनुचितमिति द्वितीयस्थाने स्थापयित्वा पंचभक्तावशिष्टत्रयेणोनाः पंच जाताः। अत उक्तं 'स्वाक्षहृच्छेषवर्जिताः' इति । एकयोगे षट् । एवं सति पुनः सैव होरा । एवमिष्टघटीभिः कालहोरानयनं सुगमं । वाराणां सप्तसंख्यात्वात्तदाधिक्यमनुचितमिति 'नगैस्तष्टा' इत्युक्तम् । क्रमगणनायां त्वियं युक्तिः । द्वयो)रास्वामिनोरंतरं पंच संभवति । एकयोगस्तु वर्तमानकालहोराज्ञानार्थ, अतः षष्ठीक्रमगणनया भवद्विवक्षिता सैव होरा भवति ॥ विवाहवृन्दावने तु उदयमारभ्योक्ताः कालहोराः । यथा-'तत्कालार्कन्यूनलग्नांशपिंडो भक्ताः पंच क्षोणिभिर्भुक्तहोराः । भास्वच्छुक्रजेंदुसौरेज्यभौमाः संख्यायेरन वारतस्ते तदीशाः' इति । अनयोर्विषयविभागो वसिष्ठसंहितायाम्-'वारप्रवृत्तेर्विज्ञानं क्षणवारार्थमेव हि । अखिलेष्वन्यकार्येषु दिनादिरुदयाद्भवेत् ॥' इति । क्षणवारः-कालहोरारूपः, तदर्थं वारप्रवृत्तिः । अन्यकार्येषु दिक्शूलादिपु तिथिवारप्रयुक्तेषु नक्षत्रवारप्रयुक्तेषु चायोगेषु सुयोगेषु च सूर्योदयादेव वारा ग्राह्याः ॥ ५५ ॥
५ मु० चि.