________________
मुहूर्तचिंतामणिः । [ वारप्रवृत्तिनिरुक्तिः
अथ ग्रहाणां होरां वक्ष्यति, सा च वारप्रवृत्त्यधीना, तदर्थ वारप्रवृत्तिमुप
जात्याह
४८
-
पादोनरेखापरपूर्वयोजनैः पलैर्युतोनास्तिथयो दिनार्धतः । ऊनाधिका स्तद्विवरोद्भवैः पलैरूध्वं तथाधो दिन पप्रवेशनम् ५४
पादोनेति ॥ रेखा = भूमध्य रेखा । 'पुरी रक्षसां देवकन्याथ कांची सितः पर्वतः पर्यलीवत्सगुल्मम् । पुरी चोज्जयिन्याहया गर्गराटं कुरुक्षेत्रमेरू भुवो मध्यरेखा ॥' इति भास्करेणोक्ता । उपलक्षणं चैतत् - लंकात आरभ्य सुमेरुपर्यंतं यद्दत्तं सूत्रं तदधोवर्तिनो ये देशास्ते मध्यरेखा उच्यंते । तदुक्तं तेनैव - 'यलंकोज्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान्स्पृशत्सूत्रं मेरुगतं बुधैर्निंगदिता सा मध्यरेखा भुवः ।' इति । यस्मिन्देशे वारप्रवृत्तिश्चिकीर्षिता स देशो यदि मध्यरेखातः प्राक्पश्चाद्वा यावंति योजनानि भवंति तानि स्वचतुर्थांशोनानि कृत्वा तावद्भिः पलैस्तिथयः पंचदश युतोनाः कार्याः । यदि मध्यरेखातः प्रत्यग्योजनानि तदा युताः । यदा तु प्राग्योजनानि तदोनाः कार्या इत्यर्थः । अथ यद्दिने वारप्रवृत्तिरिष्टा, तद्दिने 'चरपलयुतहीना नाडिकाः पंचचंद्रादयुदलमथ निशार्ध याम्यगोले विलोमम् ।' इति भास्करोक्तरीत्या दिनार्ध साध्यम् । तस्माद्दिनार्धात्संस्कारविशिष्टाः पंचदश ऊनाधिकाश्चेद्भवंति तद्विवरोद्भवैः पलैर्दिनार्धस्य संस्कारविशिष्टपंचदशानां च यद्विवरमंतरं तत्संबंधेनोत्थैरुत्पन्नैः पलैरूर्ध्वं तथाधो दिनपस्य वारस्य प्रवेशनं वारप्रवृत्तिः स्यात् । यदि दिनार्धात्संस्कारविशिष्टाः पंचदश चेदूनाः स्युस्तदा सूर्योदयादूर्ध्व वारप्रवेशनम् । यदा ह्यधिकास्तदा सूर्योदयात्प्राग्वारप्रवृत्तिरित्यर्थः । यथा वाराणसीप्राकूमध्य रेखाभिधात् कुरुक्षेत्राचिषष्टियोजनानि ६३ पादोनानि ४७ । १५ प्राग्योजनत्वादेतैः ४७ पलैः ऊना: पंचदश जाताः १४ / १३ दिनार्ध १७/२ अस्मात् न्यूना इति विवरं २।४९ सूर्योदयादूर्ध्व वारप्रवृत्तिः । अयमर्थो ग्रंथकृता लाघवायोपनिबद्धः । राजमार्गस्तु वसिष्ठसंहितायाम् - 'प्रभाकरस्योगमनात्पुरे स्याद्वारप्रवृत्तिर्दशकंधरस्य । चरार्धदेशांतरनाडिकाभिरूर्ध्वं तथाधोऽथ परत्र तस्मात् ॥' इति । श्रीपतिरपि — 'चरार्धदेशांतरयोर्वियोगयोगोत्थमानीय पलैश्च सम्यक् । सूर्योदयादूर्ध्वमृणे धनेऽधो वारप्रवृत्तिं मुनयो वदंति ॥' इति । तत्र चरमुत्तरदक्षिणगोलवशाहणं धनं च 'अस्वं, स्वं चरं गोलयोः स्यात्' इति भास्करोतेः । देशांतरमपि पूर्वापरयोजनवशादृणं धनं च । तत्र - 'योगे युतिः स्यात्क्षययोः स्वयोर्वा धनर्णयोरंतरमेव योगः ' इत्युक्तेः ऋणयोर्देशांतरचरयोर्योगे तूर्ध्व वारप्रवृत्तिः । धनयोर्योगे सूर्योदयादुधः धनर्णयोर्योगें तरं कार्यम् । तद्यदि ऋणं धनं च तदा सूर्योदयादूर्ध्वमधश्च वारप्रवृत्तिः । ग्रंथकृता तु चरसंस्कारो मध्याह्नस्य तद्विशिष्टत्वान्न कृतः । देशांतरसंस्कारोऽवशिष्यते स लंकादिनार्थे पंचदशघटीमिते कार्य:, तथा कृते सति यदुभयोरंतरं तावत्सूर्योदयादूर्ध्वमधश्च वारप्रवृत्तिः ॥ ५४ ॥
१ गोलयोः=सौम्ययाम्यगोलयोरित्यर्थः ।